________________
१०२
भक्तामरस्तोत्रम् विरूपं करिष्यति स स्वपापेनैव गलिष्यति । योऽस्या वाक्यं चाचरिष्यति स सर्वसुखभाजनं भविष्यति । इत्युक्त्वा तिरोहिता चक्रा । सर्वे पादयोः पेतुः। ततो धर्म शुश्रुवुः, यथा
"देवो जिनः सद्गुरुरेव सेव्यो
धर्मो विधेयः करुणाप्रधानः। द्वाविंशतिं नैव कदाप्यभक्ष्य
वस्तूनि भक्ष्याणि किमत्र लक्ष्म ॥१॥"-इन्द्रवत्रा षट्कर्मरताः श्राद्धा ब्राह्मणा एव । उक्तं च
"देवपूजा गुरूपास्तिः, स्वाध्यायः संयमस्तपः ।
दानं चेति गृहस्थानां, पट् कर्माणि दिने दिने ॥१॥"-अनु० शुचितया कर्माणि कुर्वते । उक्तं च
"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ॥ २॥"-अनु० श्रावकगृहिण्यः पञ्चसु यतनां कुर्वते । उक्तं च
"खण्डनी पेषणी चुल्ली, जलकुम्भः प्रमार्जनी।
__ पञ्चसूना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥ ३ ॥”-अनु० ज्ञातैतद्धर्मतत्त्वा जैनधर्म प्रपन्नाः । सपत्न्यपि चरणयोरपतत् । तां क्षमयामास धर्ममङ्गीचकार । एवं प्रभावयामास दृढव्रता जिनशासनमिति ।
॥ इति चतुर्विंशी कथा ॥ मे० वृ०-अथ सर्पभयनाशमाह-(रक्तेक्षणमित्यादि ) ।
हे मुनिनाथ ! जिनेन्द्र ! यस्य पुंसः हृदि त्वन्नामनागदमनी भवतीत्यन्वयः। भवति' इति क्रियापदम् । का की ? 'त्वन्नामनागदमनी' । भवतो यदभि( धानं तदेव नागदमनी-सर्पदमनकारिणी यस्य जनस्य हृदि हृदये वर्तते स ) फणिनं क्रमयुगेन आक्रामति-पराभवतीत्यन्वयः। 'आक्रामति' इति क्रियापदम् । कः कर्ता ? 'सः' पुरुषः । कं कर्मतापन्नम् ? 'फणिनं' सर्पम् । फणिनमित्युक्त्या अतिभीषणता सूचिता । तामेवाह-रक्तक्षणं' आरक्तलोचनम् । पुनः किं विशिष्टम् ? 'समदकोकिलकण्ठनीलं' मदेन-स्मयेन युक्तो यः कोकिल:-पिकस्तस्य कण्ठवन्नीलं-श्यामम् । पुनः किंविशिष्टम् ? 'क्रोधोद्धतं' कोपदुर्धरम् । पुनः किं ? 'उत्फणं' उत्-ऊर्ध्व फणाधारिणम् । किं कुर्वन्तम् ? 'आपतन्तं' शीघ्रमाग. च्छन्तम् । केन आक्रामति ? 'क्रमयुगेन' पदयुगलेन । भयं विना पद्भ्यां संघट्टते इत्यर्थः । कीदृशः स पुरुषः ? 'निरस्तशङ्कः' सर्वथा भयवर्जितः॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only