________________
श्रीमानतुङ्गसूरिविरचितम् "आधिव्याधिविरोधादि, सर्व वाधानिवन्धनम् ।
विध्यायत्याशु धर्मेण, घनेनेव दवानलः ॥१॥"-अनु० सार्थलोकोऽप्युत्तमसेवितत्वाद् दृष्टप्रत्ययत्वाच्च जिनधर्ममाहतवान् हिरण्यमुपायं लक्ष्मीधरः स्वपुरमासरत् । कदाचित् पुरे उत्थितं वनाग्निं दुःशमं स्तववृत्तजप्ताम्भ सेचनादुपाशीशमत् सार्थेशः। रञ्जितो नितरां तन्नगरीयो राजा श्रीजिनेन्द्रं देवममन्यत लक्ष्मीधरं धार्मिकशेखरं बहु मेने । इत्थं जिनशासनं प्रभावयन् सर्वसुखकीर्तिभाजनमजनि लक्ष्मीधरः॥
॥ इति त्रयोविंशी कथा ॥ मे० वृ०-अथ वह्निभयनाशमाह-(कल्पान्तेत्यादि )।
हे जिनेन्द्र ! त्वन्नामकीर्तनजलं दावानलं शमयतीत्यन्वयः। 'शमयति' विध्यापयति इति क्रियापदम् । किं कर्तृ ? 'स्वन्नामकीर्तनजलं भवदभिधानस्य यत् कीर्तनं-स्तवनं तल्लक्षणं जलं-पानीयम् । के कर्मतापन्नम् ? 'दावानलम्' । "दवो दावो वनवह्निः" (अमि० का०४, श्लो० १६७) इति हेमसूरयः, वनपदसन्निधानादुत्कटत्वं ध्वन्यते, तदेव स्पष्टयति-कीदृशं दावानलं ? ('कल्पान्तकालपवनोद्धतवह्निकल्प' ) कल्पान्तकालस्य यः पवनो-वायुस्तेन उद्धतो-दुर्वारो यः वह्निः-अग्निस्तस्य कल्प:आचारो यस्य, तत्तुल्यमित्यर्थः, नात्र ईषन्यूनार्थे कल्पप्प्रत्ययः, तथा सती उत्कटताभङ्गात् । पुनः कीदृशं दावानलम् ? 'ज्वलितं' प्रदीप्यमानं-प्रवर्द्धमानावस्थं, न प्रशाम्यन्तमिति भावः । पुनः कीदृशम् ? 'उज्ज्वलं' विकासितं-प्रसरमाप्तम् । "उज्ज्वलस्तु विकाशिनि, शृङ्गारे विशदे दीप्ते” इत्यनेकार्थः (श्लो० १२२६१२२७), 'उज्वलं रक्तम्" इति कौशल्याम् । पुनः किंविशिष्टरूपम् ? 'उत्स्फुलिङ्गं वह्निकणैः प्रबलम् । इवोत्प्रेक्षते । पुनः कीदृशम् ? 'विश्वं जिघत्सुमिव' जगद्भक्षितुमुत्सुकमिव । किं कुर्वन्तम् ? सम्मुखं यथा ( स्यात्) तथा आपतन्तं-आगच्छन्तम् , अत्र यद्यपि आपतन्तमित्यनेन सम्मुखत्वमुक्तार्थ तथापि सम्मुखपदसन्निधानात् आपतन्तं-शीघ्रमागच्छन्तमित्येवं व्याख्येयम् , अन्यथा पौनरुक्तत्वात् । पुनः कीदृशम् ? 'अशेष' सर्वम् ॥
समासाश्च-कल्पश्चासौ अन्तश्च कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य पवनेन उद्धतः स चासौ वह्निश्च तस्य कल्प-आचारो यस्य स तथा तम् । दावश्चासौ अनलश्च दावानलस्तम् [तत्] । ऊर्ध्वं स्फुलिङ्गा यस्य स तम् । जिघत्सुमित्यत्र अत्तुमिच्छति-जिघत्सति इति जिघत्सुस्तम् । अद्धातोः 'घस्लसनद्यतनीघञ्चलि' (अ० ४, पा० ४, सू०१७) इति सिद्धहैमसूत्रात् घसू आदेशो, 'घस अदने' धातुर्वा । तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं, तच्च तज्जलमिव त्वन्नामकीर्तनजलम् । शमयतीत्यत्र ‘शमोऽदर्शने' (अ० ४, पा० २, सू० २८) हैमसूत्रात् ह्रस्वः । न विद्यते शेषं यस्य स अशेषस्तम् ॥ इति काव्यार्थः ॥ ३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org