________________
१८
भक्तामरस्तोत्रम् ग्रसिषुमिव सम्मुखमापतन्तं-अभिमुखमायान्तम् अशेष-सामस्त्येन , सर्वदिग्व्यापकं वा । त्वन्नामस्मरणनीरं दावानलं स्फेटयतीत्यर्थः । इति वृत्तार्थः ॥ ३६ ॥ प्रभावे कथा (ग्रन्थानं १२००)
तृणवृक्षलताकीर्णे, कान्तारे जातवेदसम् ।
ज्वलन्तमरुधल्लक्ष्मी-धरः सार्थशिरोमणिः॥१॥ 'प्रतिष्ठान'पुरे लक्ष्मीविलासलालसो लक्ष्मीवान लक्ष्मीधरो नाम सार्थवाहोऽवात्सीत् । स भक्तामरस्तवमधीत्य ध्यायति स्म । सोऽन्यदा
"या श्रीः सरोरुहाम्भोधि-विष्णुवक्षसि सा श्रुतिः ।
या पुनर्व्यवसायाब्धी, लक्ष्मीः साऽध्यक्षमीक्षते ॥” इति विचिन्त्य वृषभ-करभ-वेसर-खर-महिष-शकटायूह्यमानागण्यपण्यपूर्ण सार्थं कृत्वा वणिज्यायै पूर्वां दिशमगच्छत् । तदा भीष्मग्रीष्मर्तुः कलिरूपः प्रावर्तिष्ट । उक्तं च
"विधत्ते यत् तो जडपरिचितौ गोपतिकराः ___कठोरा जायन्ते कथमपि न तृष्णा विरमति । मुदे दोषारम्भो भवति भुवि वैरस्य घटना
तदेष ग्रीष्मर्तुः किमु नुकलिकालं तुलयति ? ॥ १॥"-शिखरिणी तत्रौँ निरन्तरसर्जार्जुनवञ्जलवरणवटतालतमालहिन्तालनागसागपुन्नागशिंशपशमीवंशजालरुद्धां रौहिषार्जुनग्रन्थिकमुस्तानलग्रामणीकाशमञ्जमुञ्जास्तम्बादितृणच्छन्नां वनानीमध्युवास सार्थः। सार्थवाहः पवित्रीभूय स्तवमजपत् । अत्रान्तरे ज्वालामालाकरालो दन्दह्यमानवंशशोश्रूयमाणत्राट्कारारवो महादवः पूर्व पूर्वस्यामुत्थितः क्षणेन दक्षिणामरौत्सीत् । वारुणीं कीलाभिररुणामकरोत् । कौबेरी सार्थिनां वैरिणी निरमापयत् । एवं वंशघर्षणभवे दवे प्रसर्पति त्रस्ताः सार्थजनाः । वस्तुरक्षा दूरे, जीविताशाऽपि मुक्ता । पदमपि न नंष्टुमलं लक्ष्मीधरसविधमागत्य तच्छरणं प्रपन्नाः । उक्तं च
"आदेवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः।
निर्धना विनयं यान्ति, वृद्धा नारी पतिव्रता ॥ १॥"-अनु० लक्ष्मीधरध्यानतः स्तवषट्त्रिंशद्वृत्ताविर्भूतचक्राकथितैतद्वृत्ताभिमन्त्रितपाथःसेकादेव दवानलः शशाम, नाचक्राम सार्थसीमाम् , जगाम स्वमतुलाम् । सर्वेऽपि कुशलिनो विस्मिताः पप्रच्छुः । स युगादिदेवस्तवं नुनाव जिनधर्ममाहात्म्यं च । उक्तं च
१०सायोस्था' इति ग-पाठः । २ जड़ानां-मूर्खाणां परिचितौ-परिचये; पझे जलपरिचिती, डलयोः साव. या॑त् । ३ गोपतीना-राज्ञां करा:-राजस्वानि पक्षे सूर्यकिरणानि । ४ दोषाणां-अपराधानां आरम्भः-प्रारम्भः; पक्षे दोषायाः-निशाया आरम्भः। ५ वरस्य-शत्रुभावस्य घटना, पक्षे विरसस्य-निर्जलस्य भावो वैरस्यं तस्य घटना । ६ 'मुअमुञ्जास्तम्ब' इति ख-पाठः । ७ 'नी मध्ये उवास सार्थः' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org