________________
भक्तामरस्तोत्रम् दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः।
किं पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः॥२॥"-अनु. इति । त्वद्रूपमोहितः शून्यः पुरे भ्रमामीत्युक्ते सम्मुखी सत्रपा नृपात्मजाऽभूत् । तदुपलक्षणाद् द्विगुणदेहाऽजनि वसनेनावगुण्ठनमकरोत् । अपाङ्गरिङ्गच्चङ्गतारा रोमाञ्चकनुकसारा तदङ्गं प्रविविक्षुरिवोत्काऽभवत् । इह भवे त्वदृतेऽपरः पुमान् मे सोदर इत्युक्तस्तया सः। राजाऽप्याहूतः। दृष्टा नीरुग्देहा कुमारी भूपालेन । कलाकलितकुल्यतया तस्मै दत्ता दुहिता, हृष्टा स्वयंवरा सोमराजश्च । कारितः पाणिपीडनमहामहः । अर्पित नव्यं सौधम् । समग्रा वसनाद्यशनशयनीयताम्बूलसामग्री सजिता । दत्तं प्रतिपन्नं राज्यांशमात्रम् । स च सा च नव्यनव्यसङ्गमेन सातातिरेकमापतुः । उक्तं च
"देवदड्डा खड पल्लवइं, जिम वुड्डे(टे)ण घणेण ।
विरहपलित्तमणो रहई, तिम दिद्वेण पिएण ॥१॥" किञ्च
"अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा
मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखम् । विख्याता विरहस्य सङ्गमवती क्रुद्धा प्रसन्ना ऋतु
स्नाने नूतनसङ्गमे मधुमदे रागास्पदं योषितः ॥ १॥"-शार्दूल० भृशं कोविदा च सा । उक्तं च
“विदग्धवनितापाङ्ग-सङ्गमेनापि यत् सुखम् ।
क तत् प्राकृतनारीणां, गाढालिङ्गनचुम्बनैः ? ॥१॥" ___ एवं तया साकं विषयाननुभवतोऽपि भक्तामरस्तवजापे धर्मकरणे गुरुवचःश्रवणेऽपि महानादरस्तस्य । उक्तं च
"यूनो वैदग्ध्यवतः, कान्तासहितस्य कामिनोऽपि भृशम् ।
किन्नरगेयश्रवणा-दधिको धर्मश्रुतौ रागः ॥१॥"-आर्या इति धर्ममन्तरान्तरा चकार । क्रमेण राज्य. ....गभूत् सोमराजो राजा परमजैनः॥
॥ इत्येकविंशी कथा ॥ मे० वृ०-अथ भगवतः सर्वभयनाशकत्वं वर्णयन्नष्टमहाभयनाशकत्वमाह-(श्योतन्मदेयादि)।
हे जिनेन्द्र ! भवदाश्रितानां लोकानां भयं नो भवतीत्यन्वयः। 'भवति' इति क्रियापदम् । किं कर्तृ ? 'भयं' भीतिः । केषाम् ? 'भवदाश्रितानां भवन्तं त्वां आश्रिताः-स्वामित्वेन प्रपन्नास्तेषां भीतिरपि न,
१ छाया
दवदग्धानि तृणानि पल्लवन्ति यथा वृष्टेन धनेन । विरहप्रदीप्तं मनः तिष्ठति तथा दृष्टेन प्रियेण ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org