________________
श्रीमानतुङ्गसूरिविरचितम् "छिजउ सीसं अह होउ बन्धणं चयउ सबहा लच्छी। पडिवन्नपालणे स-पुरिसाण जं होइ तं होइ(उ) ॥१॥-आर्या अलसायंतेणं वि स-जणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्की-रियब नो अन्नहाने ॥२॥ जइ चलइ मन्दरो सु-सइ सायरो २ सइ सयलदिसिचकं ।
तहवि हु सप्पुरिसाणं, पयंपियं नन्नहा होइ ॥ ३॥" इति नीतिवचः प्रसृतम् । कनी च तद्गुणान् स्मारं स्मारं (काम)दशाः प्राप । सख्योऽमिलन्। तिर्यक् शून्यं चक्षुः क्षिपन्ती तामूचुः
अलसचलितैः स्नेहादादैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लजालोलैर्निमेषपराअखैः। हृदयनिहितं भावाकूतं स्मरद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विनिश्चितः ॥ १॥-हेरिणी इत्युक्ता ब्रीडावामुखी न किञ्चिदवक् । मन्दिरं नीता न भुले, न शेते, न स्नाति, न ताम्बूलमादत्ते, न लपतीति भूतग्रस्तामिव तां वीक्ष्य सख्यो राजानमवोचन् । राजा किं भूतेन पिशाचेन यक्षेण क्षेत्रपेण वा छलितेयमिति मन्त्रचिकित्सामचीकरत् । वैद्यप्रतीकारैरपि नोपचारो जातः । ततो डिण्डिमोद्घोषणां चक्रे-यः कन्यां सजीकरोति तस्मै तदीहितं दद्मीति । कन्याविरहदूनमनसा सोमराजेन पटहः स्पृष्टः । नीतो राजपार्श्वम् , राज्ञा कन्याऽन्तःपुरम् । स ध्यानलीनां योगिनीमिव दवष्टुष्टां वल्लीमिव हिमक्लिष्टां पङ्कजि. नीमिव राहुश्लिष्टां चन्द्रकलामिव वागुरापतितामेणीमिव पाशवद्धां राजहंसीमिव पञ्जरस्था राजशुकीमिव वारिगतां गजीमिव वियोगव्यथितवपुष मनोरमामपश्यत् । कपटमान्त्रिकीभूय दोषनिग्रहाय योगिनीमण्डलममण्डयत्, ॐ हुं फट् स्वाहादीनि मन्त्रपदानि उदचरत् । रहः कृत्वा कामविह्वलं तस्या मनो मत्वा कन्यामलपत् कर्णे
"नालं यातुं न च स्थातुं, त्वद्रूपहतचेतनः। कुर्वसत्यं नृपं सत्यं, वाक्यं देहि प्रसीद मे ॥१॥-अनु०
१ छाया
छिद्यतां शीर्षमथ भवतु बन्धनं च्यवतु सर्वथा लक्ष्मीः । प्रतिपन्नपालने सत्पुरुषाणां यद् भवति तद् भवतु ॥१॥ अलसायमानेनापि सज्जनेन यान्यक्षराणि समुल्लपितानि । तानि प्रस्तरटङ्कणोत्कीर्णानीव नान्यथा भवन्ति ॥२॥ यदि चलति मन्दरः शुष्यते सागरो भ्रश्यति सकलदिशिचक्रम् ।
तथापि खलु सत्पुरुषाणां प्रजल्पितं नान्यथा भवति ॥ ३ ॥ २ हरिणी-लक्षणम्
"नसमरसलागः षड्वेदैईयेहरिणी मता।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org