________________
९२
भक्तामरस्तोत्रम् ""श्री पाटलीपुरे सोमराजः कश्चिदुच्छिन्नगोत्रो राजपुत्रोऽभूत् । स क्षीण द्रविणत्वाद् देशान्तरं प्रत्यचालीत् । क्वापि श्रीवर्धमानसूरयो दृष्टा वन्दिताश्च। ते देशनामकाधुरिति
"सर्वे वेदा न तत् कर्यः, सर्वे यज्ञाश्च भारत!। सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥१॥-अनुष्टुप्
-(महाभारते शान्तिपर्वणि) विउलं रज रोगेहि, वजिअं रूवमाउअंदीहम् । अन्नंपि तं न सुक्खं, जं जीवदयाइ न हु सज्झम् ॥ २॥-आर्या जिनेन्द्रपूजा गुरुपर्युपास्तिः
सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥३॥”-उपजातिः
-(सिन्दूरप्रकरे श्लो० ९३) इति श्रुत्वा जिनधर्मरहस्यविदभूत् । नमस्कारमन्त्रं भक्तामरस्तोत्रं चापठत् । नित्यं पवित्रोऽस्मार्षीत् । धरणीं विचरन् 'हस्तिनागपुरं गतः सोमराजः । तत्र राज्ञः पट्टहस्ती महदालानस्तम्भमुन्मूल्य शृङ्खलान् भवत्वा हस्तिपकान दूरं विक्षिप्य रज्जुबन्धनानि नोटयित्वा हट्टस्तम्भानुत्पाटयन् वाजितिर्यगादीन् घ्नन् उपरिभ्रमत्पतनिष्वपि शुण्डामुल्लासलयन् मत्तो मर्यादामपालयन् पुरबहिर्भागमागतः। तत्र क्षणे मनोरमा नाम राजकन्या सखीभिः सह रन्तुमाराममागतवत्यासीत् । करी तं प्रदेशमसरत् । कुमारीसख्यो जीवग्राहं गृहीत्वा नेशुः। एकाकिनी कनी विभ्यती तरलेक्षणा तस्थौ, पदमपि गन्तुं नाशक्नोत् । पुरगोपुरोपरिस्थेन नृपेणोक्तम्-भो लोकाः! यो मत्कन्यारक्षां करोति तस्मै कन्यां राज्यांशं च दगीति । पूर्व तरुतलोपविष्टेन श्रुतराजवचनेन सोमराजेन दृष्टः कन्यापार्श्ववर्ती च दन्ती । स जपन्नेव स्तवं लोलुभः कृपालुश्च कन्यां प्रत्यधावत् । कुमारी कराभ्यां गाढं गृहीत्वा निर्भयभूभागेऽमुचत् । करिणं प्रत्यसरत् । स्तवचतुस्त्रिंशत्तमवृत्तस्मरणमात्रेण तुष्टाव चक्रेश्वरीसान्निध्याद्धस्तिनं वशीचकार । कन्या कटाक्षवीक्षितैस्तमीक्षांचक्रे, स मृगाङ्कमुखीं तां च । परस्परमनुरागो जातः । सोऽधिरुह्य गजमालानेऽबन्नात् । राज्ञा वैदेशिकोऽकुल्योऽयमिति किञ्चिद् दत्वा : सः। उक्तं न वेत्ति
१छाया
विपुलं राज्यं रोगैर्वर्जितं रूपमायुष्यं दीर्घम् । अन्यदपि तत् न सुखं, यत् जीवदयाया न खलु साध्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org