________________
श्रीमानतुङ्गसूरिविरचितम् तर्हि कुतो दुःखमिति भावः । किं कृत्वा ? 'दृष्ट्वा' विलोक्य । के कर्मतापन्नम् ? 'इभ' हस्तिनम् । किंविशिष्टं इभम् ? 'ऐरावताभं' इन्द्रगजसदृशम् , तथा 'उद्धत' अविनीतम् । किं कुर्वन्तम् ? 'आपतन्तं' सम्मुखमागच्छन्तम् । पुनः किंभूतम् ? 'योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपं' अस्यार्थः समासादेव, स चैवम्-थ्योतन्-क्षरन् स चासौ मदो-दानं योतन्मदः, तेन आविला -व्याप्ताः श्योतन्मदाविलाः, ६योः मूले कपोलमूले, विलोले च ते कपोलमूले च विलोलकपोलमूले, भ्रमन्त:-चलन्तश्च ते भ्रम -भ्रमभ्रमराः, विलोलकपोलमूलयोः मत्तभ्रमभ्रमरा विलोलकपोलमूलमत्तभ्रमभ्रमराः, श्योतन्मदाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराः श्योतन्मदा०, तेषां नादः-शब्दस्तेन विवृद्धः-पुष्टः कोपो-मन्युर्यस्य स तथा तम् । अनेनात्यन्तव्याकुलत्वेन दुर्वारत्वमाह । ऐरावतस्य आभेव आभा यस्य स तथा तं, 'उष्ट्रमुखाः' (सिद्ध० अ० ३, पा० १, सू० २३ ) इत्यादिना समासः । भवन्तं आश्रिताः भवदाश्रिताः तेपाम् ॥ इति काव्यार्थः ॥ ३४ ॥
Thy devotees are not afraid of will clephants.
Those who resort to Thee are not terrified when they see a wild elephant comparable with Airāvata rushing against them--the elephant whose anger is increased by the humming of the bees which are madly whirling round their restless temples soiled with the trickling rut. (3-4)
अथ सिंहभयं क्षिपति
भिन्नेभकुम्भगलदुज्वलशोणिताक्त
मुक्ताफलप्रकरभूषितभूमिभागः। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि
नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५॥ गु० वि०-हे पुरुषसिंह! हरिणाधिपोऽपि-सिंहोऽपि क्रमगतं-फालप्राप्तं ते-तव क्रमयुगाचलसंश्रितं-चरणयुग्मपर्वतकृतावासं पुरुषं न आक्रमति-न ग्रहणाय उद्यतते-न हन्तुमुद्धावति । किंभूतो हरिणाधिपः ? भिन्नाभ्यां-विदारिताभ्यां इभकुम्भाभ्यां-हस्तिशिरःपिण्डाभ्यां गलता-पतता उज्ज्वलेन-रक्तश्वेतवर्णेन शोणिताक्तेन-रुधिरव्याप्तेन मुक्ताफलप्रकरण-मौक्तिकसमूहेन भूषितो-मण्डितो भूमिभागो येन सः । एतेन भद्रद्विपहन्तृत्वान्महाविक्रमसूचा । बद्धः क्रमः-परिकरो येन स बद्धक्रमः, त्वदाश्रयणाद् बद्धः-कीलितः क्रमः-पराक्रमो यस्य स वा बद्धाः-नद्धाः क्रमाः-पादविक्षेपा यस्य स इति वृत्तार्थः ॥३५॥ माहात्म्ये कथा
देवराजो महाटव्यां, मृगराजभयाकुलान् ।
सार्थिकान् पालयामास, स्तवाष्टापदजापतः ॥१॥-अनु० 'श्री'पुरे देवराजो नाम महाश्रावको दुर्गतो भक्तामरस्याध्यापकोऽभूत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org