________________
श्रीमानतुङ्गसूरिविरचितम् मिव । यथा सूर्यमण्डलं तुङ्गोदयाद्रिशिरसि-उन्नतपूर्वाचलशृङ्गे वर्तमानं भाति । किंभूतम् ? वियति-आकाशे विलसन्तः-द्योतमाना येशवः-करास्तेषां लतावितान-मालाविस्तारो यस्य यस्माद् वा तत् , अथ (वा) वियति-आकाशे वियन्तः-विचरन्तो वा विलसन्तः-स्मेरा येउंशवो नवोदयत्वाद् रक्तवर्णाः करास्त एव लतावितानं-रक्ताशोकप्रवालवल्लीमण्डपो यस्माद् यस्मिन् वा तद् वियद्विलसदंशुलतावितानम् । अत्रांशुवृन्दसमा मणिमयूखमाला, पूर्वादिशिखरसमानं सिंहासनं, रविविम्बोपमानं त्वद्वपुरित्युचिता समता । यतः प्रथमतीर्थकृतो रूपं स्वर्णवर्ण वर्ण्यते । अन्येषामपि पञ्चदशानां विदेहविहारिणां वा । इति वृत्तार्थः २९
मे० वृ०-अथ अशोकं व्यावर्ण्य सिंहासनं व्यावर्णयन्नाह-(सिंहेत्यादि)।
हे मुनीश! सिंहासने तव वपुर्विभ्राजते इत्यन्वयः । विभ्राजते' शोभते इति क्रियापदम् । किं फर्तृ ? 'वपुः' शरीरम् । कस्य ? 'तव' । कस्मिन् ? 'सिंहासने' सौवर्णपादपीठे । किंलक्षणे ? 'मणिमयूखशिखाविचित्रे' रत्नकिरणागैर्नानावणे । किंवि० वपुः ? 'कनकावदात' स्वर्णवत् पीतम् । “अवदातं तु विमले मनोज्ञे सितपीतयोः” इत्यनेकार्थः । इवोपमीयते । किमिव ? 'सहस्ररश्मेबिम्ब इव', इव-यथा सहस्ररश्मे:-सूर्यस्य बिम्ब-मण्डलं विभ्राजते । कस्मिन् ? 'तुङ्गोदयाद्रिशिरसि' उच्चतरपूर्वाचलशिखरे । किंवि० बिम्बम् ? 'वियद्विलसदंशुलतावितानं' आकाशप्रसरकिरणरूपवल्लिविस्तारम् ॥
समासाश्च-सिंहोपलक्षितं आसनं सिंहासनं तस्मिन् । मणीनां मयूखास्तेषां शिखास्ताभिर्विचित्रं मणिमयूखशिखा विचित्रं तस्मिन् । कनकमिव कनकं तच्च तत् अवदातं च कनकावदातम् । 'उपमान सामान्यैः' इति हैम( अ० ३, पा० १, सू० १०१)सूत्रात् समासः । विलसन्तश्च ते अंशवश्च विलसदंशवः, वियति विलसदंशवो वियद्विलसदंशवः, लता इव लताः, वियद्विलसदंशवश्व ता लताश्च वियद्विलसदंशुलताः, उपमितसमासः, तासां वितानं यस्य तत् । उदयत्यत्र इत्युदयः, स चासौ अद्रिः उदयाद्रिः, तुङ्गश्चासौ उदयाद्रिश्च तुङ्गोदयाद्रिः, तस्य शिरस्तस्मिन् । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य ॥ इति काव्यार्थः ।। २९ ॥
Thy body ( resting ) on the lion-throne variegated by the (radiance of the ) pencil of rays of jewels and beautiful (or yellow) like gold shines like the disc of the Sun on the high summit of the sun-rise-mountain-the disc having the collection of its branch-like rays spreading in the sky. ( 29 )
कुन्दावदातचलचामरचारुशोभं
विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३०॥
भ०११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org