________________
भक्तामर स्तोत्रम्
हे मुनीश ! भवतो रूपं उच्चैः आभाति इत्यन्वयः । 'आभाति' शोभते इति क्रिया० । किं कर्तृ ? 'रूप' शरीराकारः । कस्य ? ' भवतः ' तव । कथम् ? 'उच्चैः' अतिशयेन । किंवि० ? ' अशोकतरुसंश्रितं' अशोकनामके वृक्षे सामीप्येन आश्रितम् । पुनः किंवि० ? ' उन्मयूखं' प्रबल किरणम् । पुनः किंवि० ? ‘अमलं' स्वेदादिरहितम् । कथम् ? 'नितान्तं ' निरन्तरम् । अत्र उपमामाह - इवोपमीयते 'रवेर्बिम्बमिव' इव - यथा रवेर्बिम्बं आभाति । किंवि० बिम्बम् ? ' स्पष्टोल्लसत्किरणं' प्रकटप्रसरत्कान्ति । पुनः किंवि० ? 'अस्ततमोवितानं' विध्वस्तान्धकारपटलम् । पुनः किंवि० ? ' पयोधरपार्श्ववर्ति' मेघसमीपस्थम् । अशोकस्य मेघेन भगवद्रूपस्य सूर्यबिम्बेनोपमा ज्ञेया ॥
८०
समासा यथा— उदभ्वति उच्चैः 'न्युद्भ्यां चकैस् ( सिद्ध० उणा० १००३ ) ' इति साधुः । विद्यते शोको यस्मिन् पार्श्वस्थिते इत्यशोकः, सापेक्षकत्वेऽपि गमकत्वात् समासः, अशोकचासौ तरुश्च अशोकतरुः, तस्मिन् संश्रितं अशोकतरुसंश्रितम् । उत्-ऊर्ध्वं मयूखा यस्य तत् उन्मयूखम् । “उत् प्राधान्ये प्रकाशे च, प्राबल्यास्थाख्यशक्तिषु ।
विभागे बन्धने मोक्षे, भावे लाभोदूर्ध्वकर्मणोः ॥ १ ॥" - अनु०
इत्यनेकार्थः । तथा रूपं तु श्लोकशब्दयोः । “पशावाकारे सौन्दर्ये, नाणके नाटकादिके" इत्यनेकार्थः । उल्लसन्तश्च ते किरणाश्च उल्लसत्किरणाः, स्पष्टा उल्लसत्किरणा यस्मिन् तत् तथा । तमसां वितानं तमोवितानं, अस्तं तमोवितानं येन तत् तथा ।
"वितानं कदके यज्ञे, विस्तारे क्रतुकर्मणि ।
तुच्छे मन्दे वृत्तिभेदे, सूत्यावसरयोरपि ॥ १ ॥ " - अनु०
तथा "बिम्बं तु प्रतिबिम्बे स्यात्, मण्डले बिम्बिकाफले" इत्यनेकार्थः । पयो धरतीति पयो - तस्य पार्श्वे वर्तते इति पयोधरपार्श्ववर्ति । इति काव्यार्थः ॥ २८ ॥
धरः,
He describes Lord Rishabha's grandeour.
Thy defectless (perfect) figure which has resorted to the lofty As'oka tree and from which lustre emanates shines in full effulgence like the disc of the Sun lying adjacent to a cloud-the disc which possesses clear and splendid bearus and which has dispelled the mass of darkness. (28)
X 竑 妳 汝
सिंहासने मणिमयूखशिखाविचित्रे
विभ्राजते तव वपुः कनकावदातम् । बिम्वं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्विशिरसीव सहस्त्ररश्मेः ॥ २९ ॥
गु०वि० हे तीर्थपते ! मणिमयूखशिखाविचित्रे - रत्नकान्तिचूला चारुणि हैमे सिंहासने कनकावदातं - हेमगौरं तव वपुः - देहमुपविष्टं विभ्राजते - भाति । किमिव ? सहस्ररश्मेर्बिम्ब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org