________________
श्रीमानतुङ्गसूरिविरचितम्
७९ न परमपुरुषः जन्यत्वादिति प्रत्यनुमानं तुच्छं, विपक्षे बाधकतर्काभावात् , वर्द्धमानो न सर्वज्ञः वक्तृत्वात् रथ्यापुरुषवदित्यनुमानप्रयोगवदित्यन्यत्र विस्तरः ॥ .. समासा यथा-न विद्यते शेषं येषां ते अशेषाः तैः । अवकाशात् निर्गता निरवकाशाः, तेषां भावो निरवकाशता तया । मुनीनां ईशो मुनीशः, तस्यामन्त्रणे हे मुनीश! । विशिष्टा विधा:-प्रकारा येषां ते विविधाः, ते च ते आश्रयाश्च विविधाश्रयाः, उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः, तैर्जातो गर्वो येषां ते तथा तैः । स्वप्नस्य अन्तरं स्वप्नान्तरं तस्मिन् । “नामप्राकाश्यकुत्सयोः” इत्यनेकार्थः । अत्र केचित् स्वप्नस्य भगवति सम्बन्धं विधाय स्वप्ने सत्यपारमैश्वर्यादिभिः अर्थ दूषयन्ति तदसत्, दोषाणामेव पुरुषधर्मारोपात , अत एव गर्वोल्लासोऽपि संगच्छते, यद्वा छाद्मस्थ्योऽपि त्वं दोषैः-लोकविरुद्धभावैनं स्पृष्टः, तर्हि सार्वस्यैतत्प्राप्तिः कुत इति व्याख्येयम् । इति काव्यार्थः ॥२७॥
Ile declares Lord Rishabha as the sole abodle of virtues.
Oh Lord of the ascetics ! what wonder is there, if Thou art wholly resorted to by all the virtues and that Thou art not seen even in a dream by vices which are puffed up with pride owing to the manifold shelter that they found elsewhere? ( 27 )
अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाह
उच्चैरशोकतरुसंश्रितमुन्मयूख
माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं
बिम्बं रवेरिव पयोधरपार्श्ववति ॥ २८॥ गु० वि०-हे सेवकजनकल्पवृक्षसदृक्ष ! भवतः-तव रूपं-वपुः नितान्तम्-अत्यर्थम् आभाति-शोभते । किंभूतम् ? उच्चैः-अतिशयेन जिनदेहाद् द्वादशगुणोच्चः, यथा-प्रथमतीर्थकृतस्त्रिक्रोशमानोऽन्येषां क्रमेण किश्चिद्रीयमानो महावीरस्य द्वात्रिंशद्धनुर्मितो योऽशोकतरुः-ककेल्लिवृक्षस्तं संश्रितम्-आश्रितं, केवलोत्पत्तेरनन्तरं अशोकवृक्षस्य सदा विद्यमानत्वात् ; उत्-उल्लसिता मयूखाः-किरणा यस्य यस्माद् वा तद् उन्मयूखं; अमलंस्वेदपङ्करहितत्वात् निर्मलम् । किमिवाभाति? रवेर्बिम्बमिव । यथा रवेर्बिम्ब पयोधरपा
ववर्ति-मेघसमीपस्थं भाति । तदपि किंभूतम् ? स्पष्टाः-प्रकटा उल्लसन्ता-उद्गच्छन्तः किरणा यस्य यस्माद् वा तत्, अस्ततमोवितानं-क्षिप्तान्धकारप्रकरम् । सूरमण्डलरूपं जिनरूपं मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यं च । इति वृत्तगर्भार्थः ॥ २८ ॥
मे० वृ०-अथ निश्चयनयेन स्तुत्वा व्यवहारनयेन स्तोतुं प्रातिहार्याण्याह-(उच्चैरशोकेत्यादि)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org