________________
भक्तामरस्तोत्रम् - गु० वि०-हे पारगत ! कलधौतकान्तं-चामीकररुचिरं तव वपुः-देहं विभ्राजते । किंभूतम्? कुन्दावदाताभ्यां-विशदाभ्यां चलाभ्यां-शक्रादिधूयमानाभ्यां चामराभ्यांवालव्यजनाभ्यां चावी-मनोज्ञा शोभा-विभूषा यस्य तत् । किमिव ? सुरगिरेरुच्चैस्तटमिव-शिखरमिव । यथा शातकौम्भ-सौवर्ण उच्चैः-उच्चं सुरगिरेः-मेरोः तट-प्रस्थं भाति । तदपि तटं उद्यन्-उद्गच्छन् शशाङ्क:-चन्द्रस्तद्वच्छुचिः-धवला निर्झरस्य वारिधारा-जलवेणी यत्र यस्माद् वा तत् । अत्र मेरुतटसमं श्रीनाभेयदेहं, निर्झरजलधारा वरे चामरे इत्युपमा मनोरमा । इति वृत्तार्थः ॥ ३०॥
मे० वृ०-अथ चामरवर्णनमाह-(कुन्देयादि)।
हे मुनीश! तव वपुर्विभ्राजते इत्यन्वयः। योजना प्राग्वत् । किंरूपं वपुः ? 'कुन्दावदातचलचामरचारुशोभं' कुन्दपुष्पवदुज्वलचलाचलवालव्यजनैर्विशिष्टलक्ष्मीधरम् । पुनः किंरूपम् ? 'कलधौतकान्त' स्वर्णवन्मनोहरम् । किमिव ? 'सुरगिरेः उच्चैस्तटमिव' मेरुपर्वतस्य उन्नतं शृङ्गमिव । किंरूपं तटम् ? 'उद्यच्छशाङ्कशुचिनिर्झरवारिधार' उदयं प्राप्नुवन् यः शशाङ्कः तद्वत् शुचयः-उज्वला निर्झराणां वारिधारा-जलप्रवाहा यस्मिन् तत् । पुनः किंरूपं तटम् ? 'शातकौम्भ' सुवर्णमयम् । चामराणां निर्झरोपमा भगवद्वपुषो मेरुशृङ्गोपमा ॥
समासाश्च-कुन्दस्य पुष्पाणि कुन्दानि, 'लुब् बहुलं पुष्पमूले' (सिद्ध० अ० ६ पा० २ सू० ५७) इति तद्धितलुप् , कुन्दानीव कुन्दानि, तानि च अवदातानि कुन्दावदातानि, तानि च चलानि कुन्दावदातचलानि, तानि च चामराणि कुन्दावदातचलचामराणि, तैश्चार्वी शोभा यस्य तत् । कलधौतमिव कलधौतं, तच्च तत् कान्तं च कलधौतकान्तम् । उद्यश्चासौ शशाङ्कश्च उद्यच्छशाङ्कस्तद्वत् शुचयः उद्यच्छशाङ्कशुचयः, निर्झराणां वारीणि निर्झरवारीणि, तेषां धाराः (निर्झर०), उद्यच्छशाङ्कशुचयो निर्झरवारिधारा यत्र तत् तथा । सुराणां गिरिः सुरगिरिस्तस्य । शातकुम्भस्य विकारः शातकौम्भम् ॥ इति काव्यार्थः ॥ ३० ॥
Thy body which is lovely like gold and which possesses fascinating beauty owing to the moving chowries white like the jasamine flowers, shines like the topmost golden peak of the mountain of gods (Meru) from which the water-falls pure like the rising moon are gurgling. ( 30 )
छत्रत्रयं तव विभाति शशाङ्ककान्त
मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org