________________
-
८
श्रीमानतुङ्गसूरिविरचितम् इत्यन्वयः। 'प्रसूता' इति क्रिया० । का की ? 'अन्या' जननी-माता, तव जनन्या मरुदेव्याः इति शेषः । किं कर्म० ? 'सुतम्' । किंवि० ? 'स्वदुपम' तव तुल्यम् । मरुदेव्याः पुत्रत्वं श्रीऋषभप्रभोः परसमयेऽपि प्रसिद्धं, यदुक्तं भागवते प्रथमस्कन्धे
"अष्टमे मरुदेव्यां तु, नाभेर्जात उरुक्रमः।
दर्शयन् वम धीराणां, सर्वाश्रमनमस्कृतः ॥ १॥"-अनु० अत्रार्थे दृष्टान्तमाह-सर्वा दिशो भानि दधति-धरन्ति इति सण्टङ्कः । 'दधति' इति क्रिया० । काः कर्व्यः ? 'दिशः सर्वाः' प्राच्यादयः सकलाः काष्ठाः। कानि कर्मतापन्नानि ? 'भानि' नक्षत्राणि । तथापि सहस्ररश्मि प्राच्येव दिग् जनयति-प्रसूते । 'जनयति' इति क्रिया० । का की ? 'प्राची दिग्' पूर्वाऽऽशा । कं कर्मतापन्नम् ? "सहस्ररश्मि' सूर्यम् । किंवि० ? 'स्फुरदंशुजालं' विलसत्किरणसमूहम् । एवकारो निश्चयार्थः । प्राच्येव नान्या दिग् इत्यर्थः ॥
समासा यथा-शतं शतं इति शतशः, 'बहादेः (कारकात्) शस्' (सा० सू० ६७८) । जनयन्तीत्यत्र 'चल्याहारार्थेबुधयुधमुद्रुझुनशजनः' (अ० ३, पा० ३, सू० १०८) इति हैमसूत्रात् परस्मैपदम्। तव उपमा यस्य स त्वदुपमस्तम् । सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तम् । तथा अंशूनां जालं अंशुजालं, स्फुरद् अंशुजालं यस्य स तथा तम् । अत्र सर्वाश्च ता दिशश्च सर्वादिशः कर्मधारयः, सर्वा इति पृथक् पदं वा इति, तथा जनयतीत्यत्र नामधातुरिति कोशल्यां दृश्यते । इति काव्यार्थः ।। २२ ॥
He suggests the natural birth of God.
Hundreds of women give birth to hundreds of sons; but no mother (except Thine) gave birth to a son that could stand (out in) comparison with Thee. In all the directions there are (lit. all the quarters contain ) constellations, but it is only the east which brings forth the Sun having a collection of resplendent rays. (22)
परमपुंस्त्वेन स्तुतिमाह
त्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ॥ गु० वि०-हे मुनीन्द्र ! मुनयो-ज्ञानिनः त्वां परमं पुमांसं-परमं पुरुषम् आमनन्तिभणन्ति-अवबुध्यन्ते । वेदेऽपि-पुरुष एवेदं निं सर्व यदू भूतं यच्च भाव्यम् , उतामृत
. 'पुरस्तात्' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org