________________
भक्तामरस्तोत्रम् ... .श्रीगुडशस्त्र'पत्तने भुवनमुनिना वृद्धकरनामा बौद्धाचार्यो वादे जितः। स पराभवान्मृत्वा यक्षीभूय सङ्घमुपद्रोतुं लग्नः । सङ्घन स्तवद्वाविंशवृत्ताम्नायजपनप्राप्तदुष्टयक्षदलनोपायाः सोत्साहा वृद्धवयसो विद्यासिद्धाः श्रीआयेखपुटाचायो विज्ञप्य 'गुडशस्त्र'पत्तनमानीताः। प्रभवो यक्षायतनं गत्वा यक्षकर्णयोर्जीर्णपादुके निवेश्योरसि स्वांही कृत्वा वस्त्रेणाङ्गमावृत्य सुषुपुः। यक्षार्चकः समेत्योवाच-रे दुर्विनीत! शीघ्रमुत्तिष्ठ, मरिष्यसेsन्यथा । ते कपटनिद्रया स्थिताः । राजादयो यक्ष नन्तुं प्रातरागताः । राजाज्ञया राजपुरुषास्तं हन्तुं लग्नाः। कशाघाता अन्तःपुरे लेगुः । पूत्कारका नरा आयाताः । एतस्य सिद्धस्य प्रभावोऽसौ इति मत्वा घाता निर्वर्तिता राज्ञा । स सूरिपदौ गृहीत्वा स्थितः। उत्थिता गुरवः । यक्षः स्वस्थानाद् गुरुचरणमूलमागत्यापतत् । गुरुभिर्निर्भत्स्य सङ्घस्य रक्षकीकृतः । प्रभवो यक्षयुताः पुरं प्रति चेलुः । अन्येऽपि शिव-विनायकाद्या यक्षगृहाच्चेलुः । द्वे महदृषन्मये कुण्डिके चालिते । सर्वे पुरद्वारात् स्वस्थानं प्रति विसृष्टाः। प्रभून् नत्वा गतवन्तश्च । कुण्डिके तत्र स्थापिते तथैव तिष्ठतोऽद्यापि न कोऽपि चालयितुं क्षमः। तादृशां गुणान् कः संख्यातुं वेत्ति ? । उक्तं च
"गुणान् गुणवतां वेत्तुं, विरलाः प्रभविष्णवः ।
वेत्ति रत्नपरीक्षायां, लवमेकं न वल्लवः ॥१॥"-अनु० यक्षमहिमा चास्तं गमितः । उक्तं च
"दत्ते विपत्तिमासत्तिः, प्रभोरत्युग्रतेजसः।।
ग्रहमस्तमितं प्राहु-र्गतं मार्तण्डमण्डले ॥ १॥"-अनु० इति स्तूयमाना राजकारितप्रवेशमहामहाः पौषधागारं प्राप्ता धर्ममुपादिशन्
"भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे
दीनादिभ्यः प्रदानं श्रवणमनुदिनं श्रद्धया सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमागानुरागः
___ सङ्गो निःसङ्गचित्तैर्विषयविमुखता हर्यिणामेष धर्मः ॥१॥"-स्रग्धरा इत्याकर्ण्य प्रबुद्धा बुद्धभक्ता नृपादयोऽहंद्धर्मे निश्चला आसन् ।
॥ इति चतुर्दशी कथा॥ १४ ॥ मे० वृ०-अथ केचित् परमेष्ठिनमलक्षजन्मत्वादनादिमाहुस्तन्मतनिरासेन जिनमातरं वर्णयन्नाह(स्त्रीणामित्यादि )। _हे नाथ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति-प्रसुवते इति सम्बन्धः । 'जनयन्ति' इति क्रियापदम् । कानि कर्तृणि ? 'स्त्रीणां शतानि' बहवो नार्यस्तत्स्वभावात् । कान् कर्मतापन्नान् ? 'शतशः' बहुशतानि 'पुत्रान्' तनयान् । तथापि हे नाथ! त्वदुपमं सुतं अन्या काचित् स्त्री न प्रसूता-न सुषुवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org