________________
भक्तामरस्तोत्रम् त्वस्येशानो यदन्नेनातिरोहति' इति महिमवर्णनम् । परमपुंस्त्वं बाह्यान्तरपुंसोरपेक्षया । बाह्यः पुमान् कायः । आन्तरः पुमान् सकर्मा जीवः । परमः पुमान् निष्कर्मा सोऽनन्तचतुष्कः सिद्ध उच्यते । किंभूतम् ? 'अमलं' रागद्वेषमलरहितम् । आदित्यस्येव वर्ण:कान्तिर्यस्य तमादित्यवर्णम् । तमसो दुरितस्य परस्तात्-परतो वर्तमानम् । पुराहतो रविसाम्यं क्षिप्तम् , साम्प्रतं किमित्युक्तं ! भण्यते, तेजोशमात्रलब्धिसाम्यात् । परमार्थतो नभोभ्रमरयोरिव समुद्रबिन्द्वोरिव मन्दराण्वोरिव महदन्तरालं परमपुरुषालोकसूर्यालोकयोरिति । भानुरपि तमसोऽन्धकारस्य परतस्तिष्ठति । अन्यच्च मुनयः सम्यग्-अन्तःकरणशुद्ध्या त्वामेव, एवशब्दो निश्चये, उपलभ्य-प्राप्य-मत्वा मृत्युम्-अत्यन्तं भयंकर मरणं जयन्ति-स्फोटयन्ति च । अत्र ॐ जूं सः मृत्युंजयाय नमः इति मृत्युंजयरक्षा । अन्यच्च शिवपदस्य-मोक्षस्थानस्य अन्या-त्वत्तोऽपरः शिवः-प्रशस्तो निरुपद्रवो वा पन्था-माों नास्ति । मुक्तिकारणं त्वमेव अतः श्रयणीयः । इति वृत्तभावार्थः ॥ २३ ॥ महत्त्वे कथा
चण्डिका चालिता गल्ले, कृतं च करजक्षतम् ।
मुञ्चमानाऽश्रु चक्षुभ्ां, देवताऽभूद् वरप्रदा ॥ १॥-अनु० पूर्व श्रीआर्यखपुटसूरयः स्तोत्रत्रयोविंशप्रवृत्तादिदेवमन्त्रस्मृत्या प्रसन्नसर्वानुभूतिचक्रादत्तवराः प्राप्तदुष्टव्यन्तरसाधनोपायाः श्रीउज्जयिनी ययुः । पुरोधाने चण्डीभवने उषायामूषुरुषर्बुधज्वलद्विद्याप्रतापाः । सा मिथ्यादृष्टिर्दुष्टा वसतिजने कुप्यति विशेषतः श्वेताम्बरेषु । अतो विकृतरूपा पीतमदिरेवाताम्रमुखी प्रभुपार्श्व प्राप्ता । प्रभवो ध्यानमापूर्योपविष्टाः। दृष्टा सा क्रुध्यन्ती । गल्ले नखक्षतं दत्तम् । तत् कुलिशकर्कशं जातम् । देवी दृग्भ्यामणि मुञ्चन्ती वरं ददौ । गुरुभिर्वधनिषेधः कारितः । जनोपसर्गो वारितः । शान्तीकृता सा । प्रत्यूषे प्रभुपुरःसरा पौरैः सहोपाश्रयं प्रति प्रस्थिता । पुरद्वाराद् व्यावर्तिता पूज्यांहीं नत्वा स्वायतनं गता । कपोले नखरेखा तथैव स्थिता । लोकः सम्यगाराध्यवचनमाराधयत् । सम्यक्त्वं बहवः प्रपेदिरे । गुरुगुणान् स्मरन्तः स्वमन्दिरमीयुजनाः । उक्तं च
"गुणिनः स्वगुणैरेव, सेवनीयाः किमु श्रिया ? । कथं फलर्द्धिवन्ध्योऽपि, नानन्दयति चन्दनः ॥१॥"-अनु०
॥ इति पञ्चदशी कथा ॥ १५ ॥
'ही' इति ग-पाठः। २ 'भुवने' इति ख-पाठः। ३ उपर्बुधः अग्निः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org