________________
५७
श्रीमानतुङ्गसूरिविरचितम् अच्छिद्रपाणिरहन , नापतदवनौ तथेचरसबिन्दुः। याति शिखा यदि शशिनं, तीर्थकृतोऽतिशयतो न पतेत् ॥ २०॥ दिवि दुन्दुभयो नेदु- घुषुरहो दानमर्जुनं ववृषुः।। रत्नकुसुमादि मुमुचु-जेहषुर्ननृतुश्च देवगणाः ॥२१॥ अन्तर्हिताशनविधौ, भगवति गतवति कृतं पदस्थाने । तेनादिकृते मण्डल-मन्यैश्च रवेः क्रमात् प्रथितम् ॥ २२॥ स्वमत्रयं पुरोदित-मभूच्च सत्यं जिनेन्द्रपारणकात् । सोमप्रभोऽथ हृष्टः, स्वसुतं दृष्ट्वा सुराभिनुतम् ॥ २३ ॥ आगतकच्छादीनां, मिलितजनस्याग्रतश्च जिनवृत्तम् । आहारविधिमचीकथ-दात्मचरित्रं च युवराजः ॥ २४ ॥ ईशाने ललिताङ्गः, स्वयंप्रभा प्राणवल्लभा प्रथमम् । राजाऽथ वज्रजङ्घः, श्रीमत्या कान्तया श्रीमान् ॥ २५॥ अथ युगलिनौ च देवी, जीवानन्दश्च केशवो मित्रम् । अच्युतसुरौ च राजेन्द्र-वज्रनामश्च सूतश्च ॥ २६॥ सर्वार्थसिद्धि (द्ध)देवी, मरुदेवीनाभिनन्दनो विदितः। प्रथमजिनोऽजनि चाहं, श्रेयांसः सुयशसो जीवः ॥ २७ ॥ अष्टभवप्रतिबद्ध-स्नेहोऽहं नवमके ततो नाथम् । दृष्ट्वा जातिस्मृत्या, ज्ञातेयं तीर्थकृन्मुद्रा ॥ २८ ॥ प्रासुकजलसिद्धान्नं, निर्बीजफलं सशुष्कमूलदलम् । योग्यं देयमृषिभ्य-स्तेऽगुः स्वाश्रयमिति श्रुत्वा ॥ २९ ॥ पात्रं श्रीऋषभजिनः, श्रेयांसः श्रेयसाऽन्वितो दाता। वित्तं शुद्धेक्षुरसो, न विद्यते भूतलेऽन्यत्र ॥ ३०॥ श्रमणोपासकभावे, श्रेयांसः प्रथम एव भुवि विदितः। मुक्तः क्रमेण राज्यं, प्रपाल्य पूर्वाणि भूयांसि ॥ ३१ ॥ इति येऽन्यभवालोकात् , पुनरपि ददृशुर्जिनं गुणावासम् । तोषं भेजुस्ते पर-देवैदृष्टैरपि प्रथमम् ॥ ३२॥
॥ इति वृत्तगर्भार्थः ॥२१॥ अथ महिमकथा
श्रीजीवदेवसूरीन्द्रा, विहृता देवपत्तने।
पौराणां दर्शिता यैस्तु, शिवब्रह्माच्युतादयः॥१॥ सुवर्णम् ।
भ.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org