________________
५६
भक्तामरस्तोत्रम् परितो वैरिक्रान्तो, वीरः श्रेयांसविहितसाहाय्यः । रणभुवि विजयी जातः, स्वप्नं सोमप्रभोऽपश्यत् ॥ ५॥ रविमण्डलतः पतितं, करजालं गलिततेजसस्तस्य । श्रेयांसेन तु घटितं, स्वप्नं श्रेष्ठी ददर्शति ॥ ६॥ प्रातः पर्षदि मिलिताः, स्वमार्थं किमपि भाव्यजानन्तः । ऊचे नृपतिः कश्चित् , श्रेयांसस्योदयो नूनम् ॥ ७॥ निजनिजसौधं जग्मुः, श्रेयांसश्रेष्ठिमन्त्रिसामन्ताः। युवराजो जनतानां, कलकलमशृणोद् गवाक्षस्थः ॥ ८॥ आसन्ननरमपृच्छत् , कोलाहलकारणं ततो युवराट् । सोऽचीकथच्च मत्वा, निःशेष वृषभवृत्तान्तम् ॥ ९॥ रजतस्वर्णाभरण-प्रवालमुक्ताफलाश्वयानादि। प्रपितामहस्तवायं, कौशलिको नैव गृह्णाति ॥ १० ॥ तेनायं नगरजनः, कलकलशब्दं करोति भक्तिपरः। स्वामिन्नस्मिन् भक्ते, कुरु प्रसादं वदन्नेवम् ॥ ११॥ तच्छुत्वा श्रेयांसो, निरुपानत्कस्त्वरान्वितोऽभ्यगमत् । तां जिनमूर्ति दृष्ट्वा, जातस्मृतिमाप गतपापः ॥ १२ ॥ पूर्वविदेहे पुण्डरि-किण्यां पुरि वज्रसेनजिनसूनुः। चयजनि वज्रनाभः, सुयशास्तत्सारथिः प्रथितः ॥ १३ ॥ सह बाहुसुबाहुभ्यां, पीठमहापीठसहजसुयशोभिः। चक्रधरः पूर्वधरो, व्रती समाथ चाहन्त्यम् ॥ १४ ॥ सर्वार्थदिवो भरते, गतसुकृते नाभिभूरभूदर्हन् । सुयशा यतिर्ग्रहीता-नुत्तरवासो भवं सोऽहम् ॥ १५ ॥ तत्रेयं तीर्थकरस्य, वनसेनस्य वीक्षिता मुद्रा। भूपीठेऽनन्यसमा, ऋजुजडजीवैरविज्ञेया ॥ १६ ॥ कल्प्यमकल्प्यं सैषण-मनेषणीयं न विदन्ते यदमी। मुनिपतये तत् शुद्धं, कल्याणीभक्तयो ददति ॥ १७ ॥ अत्रान्तरे च कश्चिन्-नव्येक्षुरसेन सम्भृतान् कुम्भान् । युवराजपुरोऽढौकय-दिक्षुवंशा यद् विभोर्वश्याः ॥ १८ ॥ भगवन् ! प्रसारय करौ, निस्तारय मां गृहाण योग्यममुम् । इत्युक्तेऽञ्जलिमृषभो-ऽकृत सोऽपि ददौ घटेक्षुरसम् ॥ १९॥
१ 'तन्त्र' इति क-पाठः। २ 'शलिकान्नैव' इति ग-पाठः। ३ 'इति गृही.' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org