________________
भक्तामर स्तोत्रम्
पुरा श्रीवायडमहास्थाने परकायप्रवेशविद्याविदः श्रीजीवदेवसूरयः स्तवैकविंशं वृत्तं साम्नायं क्षपायां जपन्तोऽप्रतिचक्रया सर्वदेवप्रकटनशक्तयः कृताः । ते श्रीगुर्जरात्रतः (2) सुराष्ट्रा देवपत्तनं जग्मिवांसः (ग्रं० ७०० ) । तत्र श्रीसोमनाथमहिमा महीयान् । तद्भक्तो जनो यांत्रिक अहमहमिकया नमन्ति शिवम् । श्रावकाः कङ्कटुकप्रायाः केचन । ते गुरुसंमुखं गताः । प्रभुभिर्धर्मनिर्वाहप्रश्नः कृतः । ते ऊचुः - अत्र मिथ्यादृग्मतस्यैकच्छन्त्रता, कथं धर्मनिर्वाहः ? । श्रीजीवदेवसूरयः श्रावकैः साकं सोमनाथप्रासादमासदन् । हृष्टास्तद्भक्ताः । अहो श्वेताम्बरा अपि शिवनमनायाजग्मुः । सूरिभिश्चक्रां चेतसि कृत्वा सोमेश ! आगच्छेत्युक्तम् । प्रकटः शिवोऽचालीत् । अग्रे ब्रह्मविष्णू प्रासादाच्चलितौ । सूर्य- गणेशस्कन्दादयश्चलिताः । सकलप्रकटित सुरैर्विस्मितैः पौरैः शिवार्चकैश्च सह चन्द्रप्रभप्रासादे जिनेशो नतः, सोमेशादृष्टमजिनार्चनाय करो याचितः । तेनाङ्गीकृतः । विसृष्टाः स्वस्थानगमनाय हरादयोऽन्तर्दधुः । आचार्या उपाश्रयं जग्मुः । महती शासनोन्नतिर्जाता । लिङ्गभरटकाः चन्द्रप्रभस्य करदीभूताः जिनं महादेवममन्यन्त । दृष्टप्रत्ययः को मुह्यति ? अमूदृशोऽल्पीयांसो भुवि । उक्तं च
५८
"परोक्षेषु देवेषु ख्यातिरेकस्य कस्यचित् ।
ghodha सा जम्बू- जम्बूद्वीपो यदाख्यया ॥ १ ॥ " - अनु०
इति । पूजा पुष्पसहस्रदशकं मासे पञ्चसेरमिता श्रीखण्डिका नित्यं तैलसेरत्रयं नैवेद्ये माणकद्वयं केसरकुङ्कुमपैलद्वयं कर्पूरस्य माषकमेकं कस्तूरिकायाश्च करं दत्ते सोमेशोऽटमजिनस्येति ।
॥ इति त्रयोदशी कथा ॥
१३ ॥
मे० वृ० - अथान्यदेवेभ्य एवाधिकत्वं रचनान्तरेणाह - - - ( मन्ये वरमित्यादि ) ।
! अहं तद्वरं मन्ये । 'मन्ये' इति क्रियापदम् । कः कर्ता ? ' अहम्' । किं कर्मतापन्नम् ? 'तत्' हरिहरादिदर्शनम् । किंवि० ? ' वरं' प्रधानम् । तच्छब्देन यच्छब्दापेक्षयाऽऽह - यत् मया हरिहरादय एव दृष्टाः । 'दृष्टाः' इति क्रिया० । केन कर्त्रा ? 'मया' । के कर्मतापन्नाः ? 'हरिहरादयः ' कृष्णेश्वरादयो देवाः । कथम् ? ' यत्' यदिति अव्ययम् । अत्रार्थे हेतुमाह - हे नाथ ! येषु दृष्टेषु हृदयं त्वयि सोषमेति - प्राप्नोति इत्यन्वयः । 'एति' इति क्रिया० । किं कर्तृ ? 'हृदयं ' मनः । कं कर्मतापन्नम् ? 'तो' हर्षम् । कस्मिन् ? 'त्वयि' भवति । केषु सत्सु ? 'येषु हरिहरादिषु दृष्टेषु' सत्सु पूर्व विलो - कितेषु सत्सु । पूर्वं हरिप्रमुखान् दृष्ट्वा त्वद्दर्शने मम महत् प्रमोदकारणं सम्पन्नं, तेभ्यः सातिशयगुलोहाभ्यासवतः स्वर्णदर्शनवत् इति भावः । इदमेव भयन्तरेण द्रढयति - हे नाथ ! भवता
णस्वात्,
१ 'यात्रिकया' इति क- पाठः । २ 'माटनू' इति ख- पाठः । ३ 'लक्षेष्वपत्येषु' इति क- पाठः । ४ 'पला' इति क- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org