________________
श्रीमानतुङ्गसूरिविरचितम्
५३
मायां वचनव्यभिचारालङ्कारः । अंथ (त्र ) "तेजो यथा व्रजति जात्यमणौ महत्त्वं, नैव तु काचशकलेषु रुचाकुलेषु" इति वा पाठः । वचनभेदो न भवति । इति वृत्तार्थः ॥ २० ॥ अथ मन्त्रः सूरिमन्त्र एव षट्सु वृत्तेषु वक्ष्यमाणेष्विति ॥
प्रभावे कथा यथा -
त्रिलोचनाङ्गजोत्पत्त्या - दिकं विजयसूरिभिः ।
प्रोक्तं राजपुरः पृष्टैर्यन्नोचे ब्राह्मणादिभिः ॥ १ ॥ - अनु०
श्री ' नागपुरे नगरे श्रीमहीपतिर्नरेन्द्रः । राजपूज्यः पुरोधाः सोमदेवः । तत्र पुरे श्री विजय सेन सूरयो विहारयोगेनागताः । ते निशि भक्तामरस्तव विंशवृत्तस्मरणात् तुष्टया साक्षाद्भूतया चक्रया सर्वप्रश्नविदः कृताः ॥
अन्यदा महीपतेर्देवी प्रसूतिसमयोन्मुखी बभूव । ततो राजा पुरोधःप्रभृतिद्विजान् श्वः परश्वो वा मगृहे किं भवितेति ज्ञानमपृच्छत् । ते सम्यगविदन्तो मौनमाश्रिताः । ततः श्री विजय सेन सूरय आकार्य वन्दित्वा पृष्टाः । सूरयो राजद्विजसमाजसमक्षमवोचन् - महाराज ! शृणु-भवतां पट्टदेवी नेत्रत्रययुतं सुतं प्रसविध्यति कल्ये । द्वादशेऽह्नि पट्ट - हस्ती मरिष्यति । पुत्रस्य विकृतविलोचनं विले (ल) क्ष्यते । अतः तृतीयाक्षिभवोत्पातो यास्यति । शुभं भविष्यति इत्युदित्वोपाश्रयं ययुः । सोल्लुण्ठाः सूत्रकण्ठाः सूरिमुपहसन्तो राज्ञा निषिद्धाः । द्वितीये दिने पुत्रजन्मक्रमात् सर्वमभूत् । त्रयोदशदिने गुरूनाहूय सिंहास - नमारोपयत् श्रीमहीपतिः । द्विजा मषीमलिनास्याः पातालं प्रविविक्षव इवाधोमुखाः सूरीन् प्रणेमुः । गुरवोऽवदन्नाशीर्वादम्-
" आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्या भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः । आदेश्या यस्य चिन्तामणि सुरसुर भीकल्पवृक्षादयस्ते
श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वतीं शर्मलक्ष्मीम् ॥१॥ " - ग्० इति । नित्यसुखदं जैनधर्मं श्रुत्वा नरेन्द्रः श्रावकोऽभूत् । जैनप्रासादान् महीपतिरचीकरत्, महती प्रभावना प्रसृतेति । अन्यैरपि पेठे सर्वशुभकृतिनवः स्तवः ॥
॥ इति द्वादशी कथा ॥ १२ ॥
मे० वृ० - अथ दृश्यमानज्योतिर्मय पदार्थादधिकत्वं प्रतिपाद्य मतान्तरीयाभ्युपगतदेवेभ्योऽधिकत्वं दर्शयन्नाह - ( ज्ञानं यथेत्यादि ) ।
हे नाथ! त्वयि ज्ञानं विभाति इति सम्बन्धः । ' विभाति' शोभते इति क्रियापदम् । किं कर्तृ ?
१ 'अथ... भवति' इति पाठ: ख- प्रत्यां नास्ति ।
२ मरिष्यते इति ख- पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org