________________
५४
भक्तामरस्तोत्रम् 'ज्ञान' यथार्थो वस्त्ववबोधः । कस्मिन् ? 'स्वयि' भवति । किंवि० ज्ञानम् ? 'कृतावकाशं' (कृतः-) विहितः अवकाशः-स्थानं प्रकाशो वा येन तत् । यत्तदोरभिसम्बन्धात् तथा-तेन प्रकारेण हरिहरादिषु ज्ञानं न विभाति इत्यन्वयः । योजना प्राग्वत् । केषु ? 'हरिहरादिषु' कृष्णेश्वरप्रमुखेषु । किंवि० ? 'नायकेषु' देशाधिपत्येन प्रसिद्धेषु लोकैर्देवत्वेन स्थापितेषु । अत्रार्थान्तरन्यासमाह-तेजो यथा स्फुरन्मणिषु महत्त्वं याति-प्राप्नोति । 'याति' इति क्रियापदम् । किं कर्तृ ? 'तेजः' कान्तिजालम् । किं कर्म० 'महत्त्वं' माहात्म्यं गौरवं वा । केषु ? 'स्फुरन्मणिषु' महारत्नेषु-इन्द्रनीलादिषु । कथम् ? यथायेन प्रकारेण तथा काचशकले तेजः महत्त्वं-शोभां मूल्यं वा न यातीति । किंवि० काचशकले ? 'किरणाकुले' कान्तिव्याप्तिमति । 'अपि' विस्मये, एवं अवधारणे, तुशब्दोऽत्यन्तवैलक्षण्यद्योतकः । अत्र केचिदज्ञाः त्वयेत्यत्र एकवचनेन हरिहरादिष्वित्यत्र बहुत्वेन उपमाभ्रमात् काचशकलेनार्हन्तं स्फुरन्मणिभिर्ह रिहरादीनुपमायार्थं दूषयन्ति तदयुक्तं, अर्थान्तरन्यासे तददोषात् । अत्रैव 'वक्तुं गुणान्' इति (चतुर्थ)काव्ये 'गुणान्' इत्यत्र बहुत्वं 'अम्बुनिधि' इति एकत्वं तथा त्रिदशाङ्गनाभिरित्यत्र बहुत्वं मरुतेयत्र एकत्वं; तथा-शशिना विवस्वता वा इत्यत्र एकत्वं, जलधरैरित्यत्र बहुत्वम् , कल्याणमन्दिरस्तवेऽपि सामान्यतोऽपि इति अस्मादृशामिति बहुत्वं कौशिकशिशुरित्यत्र एकत्वं इति महाकवीनां बहुस्थलेषु तथाप्रवृत्तेः, अथवा व्याख्यान्तरं-यथा तु अयि पदच्छेदात् हे नाथ ! तुशब्दद्वयं महदन्तरे अस्ति, अयीति आमन्त्रणे, नायकेषु युष्मासु इत्यत्र बहुत्वं अनधिकारप्राप्तं, प्राच्यकाव्ये युष्मन्मुखेन्दु० इत्यत्रोक्तयुष्मच्छब्देनान्वयात्, न चैतद्युक्तं, किरातार्जुनीयत्रयोदशसर्गे (श्लो० ५३)"चञ्चलं वसु नितान्तमुन्नता” इति काव्यवृत्तौ घण्टापथे 'अन्यश्लोकगतो भवच्छब्दोऽत्र विभक्तिपरिणामेन द्रष्टव्यः, अन्यथा मध्यमपुरुषः स्यात्' इत्येवं अन्वययोजनस्य उक्तत्वात् । एतानि च यैः शान्तरागरुचिभिरित्यादीनि ज्ञानमित्यादिकाव्यान्तानि प्रातः पठ्यमानानि बुद्धिसम्पद्वृद्धये भवन्तीति सूरिमन्त्रकल्पे ॥
समासा यथा-कृतः अवकाशो येन तत् कृतावकाशम् । हरिश्च हरश्च हरिहरौ, तौ आदौ येषां ते हरिहरादयस्तेषु । स्फुरन्तश्च ते मणयश्च स्फुरन्मणयः, तेषु स्फुरन्मणिषु । महतो भावः मह. त्वम् । काचस्य शकलं काचशकलं, तस्मिन् । किरणैराकुलं किरणाकुलं, तस्मिन् ॥ ___ अत्र 'तेजो मणौ समुपयाति यथा महत्त्वं नैवं तु काचशकलेषु रुचाकरेषु' इत्ययमपि पाठोऽस्तीति कश्चित् , तथा च सर्व सुस्थमिति काव्यार्थः ॥ २० ॥
IIe suggests that Lord Rishabha surpasses other gods in knowledge.
Knowledge ( which illumines all the objects ) does not shine with so great an effulgence in the case of Hari (Vishnu), Hara (S'iva) and others, the lords of the followers of other systems of philosophy )as it does when it resorts to Thee ( lit. when it finds a place in Thee). Light attains its magnificence, when it falls on the sparkling jewels; but it fails to attain the same sort of magnificence ), when it falls on a piece of glass, even if it be pervaded by the rays of light. ( 20 )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org