________________
५२
भक्तामरस्तोत्रम् अथ ज्ञानद्वारेणान्यदेवान् क्षिपति
ज्ञानं यथा त्वयि विभाति कृतावकाशं ___ नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काचशकले किरणाकुलेऽपि ॥ २० ॥ गु०वि०-हे लोकालोकप्रकाशज्ञान ! यथा-येन प्रकारेण कृतावकाशं-अनन्तपर्यायास्मकवस्तुनि विहितप्रकाशं ज्ञानं सम्यक् त्वयि विभाति, तथा-तेन प्रकारेण हरिहरादिषुविष्णु-रुद्र-ब्रह्म-स्कन्द-बुद्धादिषु नायकेषु-स्वस्वमतपतिषु एवंविधं ज्ञानं न वर्तते । एवमवधारणे वा । अवधारितं त्वयि ज्ञानम्, तेष्वज्ञानमेव । ते ह्यात्मानं कयाचिद् भयदर्शनभङ्गया नायकत्वेन ख्यापयन्तोऽपि विभङ्गज्ञानिन एव । तेषां ज्ञानं वेदादौ व्यभिचरति यथा-"विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति" (बृहदारण्यके २।४।६) इति पञ्चमहद्भूतेभ्योऽन्यो न कोऽपि । तत्रैव
"असुर्या नाम ते लोका, अन्धेन तमसावृताः।
तांस्ते प्रेत्याभिगच्छन्ति, ये के चात्महनो जनाः ॥१॥"-अनु० अत्र ऋचि परलोकगत्या भूतेभ्यो जीवः पृथगुक्तः । “शृगालो वै स जायेत यः सपुरीषो दह्यते” इति कृतकर्मभोक्तृत्वाभाव इति।
"यद् यावद् यादृशं येन, कृतं कर्म शुभाशुभम् ।
तत् तावत् तादृशं तस्य, फलमीशः प्रयच्छति ॥१॥"-अनु० इति कर्मफलभुक्तिः । क्वापि एक एवायमात्माऽन्यः सर्वो मिथ्या प्रपञ्चः । उक्तं च
"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥”-अनु० देहे देहे जीवपार्थक्येऽपि एकजीवत्वं उन्मत्तवाक्यवद् यदृच्छाप्रलापः । “न हिंस्यात् सर्वभूतानि" इति कृपास्थापना । “पुत्रकामः पशुमालभेत । अजैर्यष्टव्यम्" इति दयायां व्यभिचारः। अतो हरिहरादिज्ञानमज्ञानं पूर्वापरविसंवादि, भर्वज्ज्ञानं (तु) सहजमेकं सकलमव्यभिचारि इति स्थितम् । उपमामाह-स्फुरन्मणिषु-भास्वद्वज्र-वैडूर्य-पुष्परागेन्द्रनीलादिरत्नेषु तेजः-प्रभा यद्वन्महत्त्वं-गौरवं याति-प्रामोति तु-पुनः एवं-तद्वत् किरणाकुलेऽपि-चाकचिक्ययुतेऽपि काचशकले-क्षारखण्डे तेजो न महत्त्वं गच्छतीत्यर्थः । अत्रोप
१ यावद् यद् यादृशं' इति ख-पाठः। २ 'भगवज्ज्ञानं' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org