________________
श्रीमानतुङ्गसूरिविरचितम् अथ विशेषादिन्दूपमां निरस्यन्नाह- ..
नित्योदयं दलितमोहमहान्धकारं
गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयजगदपूर्वशशाङ्कबिम्बम् ॥ १८॥ गु०वि०-हे देववृन्दवन्ध! तव मुखाज-वदनकमलं अपूर्व शशाङ्कबिम्ब-नवेन्दुमण्डलं विभ्राजते-भाति । किंभूतम् ? नित्योदयं-शाश्वतशोभोल्लासम्। चन्द्रविम्बंतु प्रातरस्तमेति । दलितं-ध्वस्तं मोहः-अज्ञानं-मोहनीयं कर्मैव महान्धकारं येन तत् । त्वन्मुख मोहमहातमो हन्ति । चन्द्रबिम्बं त्वल्पान्धतमसनिरासे न क्षमम् । राहुवदनस्य न गम्यं-राहुसमदुवोदिवादस्यागोचरः। वारिदानां च न गम्यं-मेघसमदुष्टाष्टकर्मणां न वशं, तानि जिनमुखेक्षणात् क्षयं यान्ति । चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् । पुनः किंभूतम् ? अनल्पकान्ति-गुरुतरद्युति । चन्द्रबिम्ब चाल्पप्रभं, कृष्णपक्षे क्षीणतेजस्त्वात् । मुखं जगद्विश्वं विद्योतयत्-प्रकाशयत् । शशिबिम्बं भूखण्डप्रकाशेऽप्यसमर्थम् । अथ नित्यं-सदा उत्-उल्लसत् अयः-शुभं भाग्यं यस्य तन्नित्योदयं, सदोल्लसच्छुभभागधेयमित्यर्थः । अत: श्चन्द्रमण्डलादत्यद्भुतं भवन्मुखम् ॥ इति वृत्तार्थः॥१८॥
अत्र मन्त्रः
ॐ ह्रीं जवाचरणाणं ॐ ह्रीं विज्झाचरणाणं ॐ हीं वेउवियइढिपत्ताणं ॐ ह्रीं आगासगामीणं नमः स्वाहा ॥ दोषनिनाशिनी विद्या॥ प्रभावे कथा
आम्बडो मन्त्रिराइ ध्यायन , लेभे चन्द्राश्मनिर्मितम् ।
बिम्बं विषहरं नाग-वल्लीपत्राणि चान्वहम् ॥१॥ श्रीअणहिल्लपुरे श्रीश्रीमालकुलतिलकः श्रीउदयनपुत्रः श्रीआम्बडः श्रीकुमारपालदेवेन राज्ञा लाटदेशाधिपतिः कृतः । स भक्तामरस्तवं जपति साहर्निशम् । एकदा भृगुकच्छात् पल्लीवनं सिषाधयिषुर्निरसरत् । महान्धकारे गिरिकान्तारे निशि स्तवस्याष्टादशं वृत्तं स्मरंश्चक्रयोक्तः-वत्स! शुचितया स्तवस्मरणैकतानतया चाहं तुष्टाऽस्मि । विषघ्नं विघ्नहरं चन्द्रकान्तमयं चान्द्रप्रभं बिम्बं गृहाण, वरं च वृणीष्वेति । आम्बडो दण्डेशो निःस्पृहोऽपि सदाऽभीष्टनागवल्लीदलानि याचितवान् । नमस्कृता देवी प्रतिश्रुत्यान्तर्दधे । बिम्बमपूजयन्नित्यं पल्लीवनमसाधयत् । क्रमेण राजादेशाद् राजपितामहं मल्लिकार्जुन नृपं छलेन हत्वा शृङ्गारकोटिशाटिका १ गरलहरसिमा २ श्वेतो. हस्ती ३ पात्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org