________________
भक्तामर स्तोत्रम्
णामष्टशतं ४ द्वात्रिंशन्मूटका मौक्तिकानां ५ घटीशतमितः कनककलशः ६ अग्निधौतोंतरपटः ७ मल्लिकार्जुनशिरः ८ चेत्यष्टौ वस्तूनि श्री कुमारपालभूपालायाढौकयत् । शूरो वीरो राजपितामह विरुदभाग विषदोषमुक्तोऽभूत् । जननीपादौ नमोऽकरोत् । माता नारज्यत । पृष्ठे कारणे सोवाच- किं भृगुकच्छे शकुनिकादिविहारोद्धारं कृत्वा समेतोऽसि येनाहं तुष्यामि ?, राजहत्ययोत्सेकवान् भवान् । स कृतनिश्चयः श्रीहेमचन्द्र सूरिसान्निध्यादुद्धारं चकार । प्रतिष्ठाक्षणे तस्य दानोत्कर्षं दृष्ट्वा गृहिस्तुतिविमुखश्री हेमसूरिभिर्वर्णना चक्रे
४८
" किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः ।
aar चेद् भवतो जन्म, कलिरस्तु कृतेन किम् ॥ १ ॥”
माता नितान्तमरज्यत । दुर्लभताम्बूलिकेऽपि देशे ताम्बूलं बुभुजे । सर्वदा सर्वदो भोगभागी जातः श्रीआम्बडदण्डाधिपतिः ।
॥ इति दशमी कथा ॥ १० ॥
मे०
० वृ० - अथ चन्द्रादपि भगवतोऽतिशयमाह ( - नित्योदय मित्यादि )
हे मुनीन्द्र ! तव मुखाब्जं अपूर्वशशाङ्कविम्बं विभ्राजते इत्यन्वयः । 'विभ्राजते' शोभते इति क्रियापदम् । किं कर्तृ ? 'मुखाब्ज' वदनकमलम् । कस्य ? ' तव' भवतः । किंविशिष्टम् ? ' नित्योदयं ' अहर्निशं सश्रकम्, यद्वा उत्-प्राबल्येन अय:- शुभभाग्यं तद्युक्तम् । पुनः किंवि० ? ' दलित मोहमहान्धकारं ' निरस्तं अज्ञानरूपं तिमिरं ( येन तत् ) । पुनः किं० ? ' राहुवदनस्य' राहुशब्देन अत्र कालः, अथ (वा) दुर्वादिवादः तस्म मुखस्य न आक्रमणीयं, कर्तरि षष्ठी, तथा 'वारिदानां न गम्यं, ' वारिदाश्चात्र कामस्नेहदृष्टिरागास्त्रयोऽपि ग्राह्याः, तेषामपि परवशो नैव । पुनः किं० ? 'अनल्पकान्ति' प्रबलप्रकाशम् । तथा मुखाब्जं किं कुर्वत् ? ' जगत् विद्योतयत्' (विश्व) प्रकाशयत् । अत एव पुनः किं०वि० ? 'अपूर्व शशाङ्कविम्बं लोके दृश्यमानचन्द्रबिम्बादन्यस्वरूपं चन्द्रविम्बं तत्तुल्यमित्यर्थः, दृश्यमानं हि चन्द्रबिम्बं नित्योदयं न, नापि मोहतिमिरपराकरणसमर्थ, तथा राहुवदनं (नस्य) पराभवनीयं, लोकैकदेशप्रकाशकं चेति युक्तं अपूर्वत्वम् ॥
1
समासा यथा— नित्यं उदयो यस्य स तत् नित्योदयं, 'नेर्ध्रुवे' इत्यनेन त्यप्रत्ययः सिद्ध हैमे (अ० ६, पा० ३, सू० १७ ) | महांश्वासौ अन्धकारश्च महान्धकारः, मोह एव महान्धकारः मोहमहान्धकारः, दलितो मोहमहान्धकारो येन तद् दलितमोहमहान्धकारम् । राहोर्वदनं राहुवदनं, तस्य राहुवदनस्य । बारि बृदत इति वारिदास्तेषाम् । मुखमेव अब्जं मुखाब्जम् । न अल्पा अनल्पा, ( अनस्पा ) कान्तिर्यस्य तत् । न पूर्वं अपूर्व, शशाङ्कस्य बिम्बं शशाङ्कबिम्बं अपूर्व च तत् शशाङ्कविम्बं च अपूर्वशशाङ्कविम्बम् ॥ इति अष्टादशकाव्यार्थः ॥ १८ ॥
१ सत्ययुगेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org