________________
श्रीमानतुङ्गसूरिविरचितम् आगमे (स्थानाङ्गे ४,४) अपि
मंहारम्भयाए महापरिग्गहयाए कुणिमाहारेणं पंचंदियवहेणं जीवा निरयाउंअं कम्म पगरंति ॥
इत्यादिष्टोऽप्यभाषिष्ट स निकृष्टः-नास्ति धर्मः तत्साधकजीवाभावात् , घनाघनाभावे गिरिसरित्पूराभाववत् । पञ्चमहद्(हा)भूतोत्पन्नां चेतना मुक्त्वाऽन्यः कोऽपि देहे नास्त्यात्मा । तदभावान्नरकाद्यभावः, ग्रामाभावे सीमाभाववत् । वाचाटश्चार्वाकोऽयं पठितग्रन्थो दुर्बोध इत्यचिन्ति गुरुभिः।।
"विद्ययैव मदो येषां, कार्पण्यं विभवेष्वहो ।
तेषां दैवाभिभूतानां, सलिलादमिरुत्थितः॥१॥" ऊचुस्ते पुनस्तम्___ "धर्माद् धनं सुखं भोगा, आरोग्यं राज्यसम्पदः ।
___अधर्माद् दुःस्थता दुःखं, दास्यदुःकीर्तयो रुजः॥१॥" इत्यादि धर्मवाक्यवार्यभिन्नमध्यं मुद्गशैलवत् तं मत्वा जोषमवकलयन् श्रीधर्मदेव. सूरयः। उक्तं च
"वचस्तत्र प्रयोक्तव्यं, यत्रोक्तं लभते फलम् ।
स्थायीभवति चात्यन्तं, रागः शुक्लपटे यथा ॥१॥" पुनरेकदा क्षणदायां राजपुत्रप्रबोधोपायं चिन्तयन्तो गुरवः स्तवषोडशसप्तदशवृत्तानायगुणनक्षणे नरकदर्शनात् केलिप्रियप्रबोधो भावीति चक्रयोक्ताः सूरयोऽवदन-तथा कुरु यथाऽस्मद्युतो नरकं पश्यति राजसूः । ततो बहुदेवीसहितया तया गुरुराजपुत्रौ नीतावधोमेदिनीम् । तत्र वक्तुमशक्या बहुविधाः शीतातपादिवेदनाः क्षेत्रजसहजा दृष्टाः । छेदन-भेदन-ताडन-त्रपुपाना-ऽग्निपुत्तलिकालिङ्गना-ऽङ्गव्यथनादीनि कृच्छ्राणि पूर्वभवपातकं स्मारस्मारं कुर्वतां परमाधार्मिकाणां पुरः पटुबटुशतानि वितन्वन्तस्तथापि चौरा इव कदीमाना नैरयिकाश्च । ततो भीतो नृपसुतः पातकफलदर्शनात् प्रापितः कम्पमानः स्वपुरं गुरुयुतोः देव्या । गुरुभिर्भणितश्च-भद्र ! दृष्टं पापफलं न वा? । केलिप्रियेणोक्तम्-भगवन् ! बाढं दृष्टम् । कौरकुम्भवद् भिन्नं नृपसूनुहृदयं धर्मतत्त्वाम्भसा, गुरूणां पदमूले सम्यक्त्वमूलश्रावकवतान्यङ्गीचकार । पापेभ्योऽबिभ्यदतिदुष्टव्याघ्रदर्शनादज इव चिरं धर्म पालयामास राज्यसुखं चेति ।
॥ इति नवमी कथा ॥९॥ ...महारम्भन महापरिग्रहेण मांसाहारेण पझेन्द्रियवधेन जीवा नरकायुष्कं कर्म प्रकुर्वन्ति । २०यं कम्मं इति क-पाठः। ३ 'वात्' इति क-पाठः। ४ तूष्णीम् । ५ 'चटु' इति क-पाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org