________________
.. भक्तामरस्तोत्रम् तव्याप्तः। सहसा-झटिति-शीघं युगपत्-समकालं जगन्ति-भुवनानि स्पष्टीकरोषि-प्रकटयसि । ननु केवलिनः प्रथम(?)समये सामान्योपयोगलक्षणं दर्शनं द्वितीय(?)समये विशेषोपयोगरूपं ज्ञानं, तत् कथं युगपन्द्रहणम् ? । उच्यते-द्विसमययोरतिसूक्ष्मत्वात् निरन्तरप्र. भवत्वात् केवलिगम्यत्वाद् युगपब्रहणं न्याय्यमिति । अथ "जुगवं दो नस्थि उवओगा"। तत्र भगवत एकस्मिन् समये दर्शनमन्यस्मिन् ज्ञानं, तत् कथम् ? सत्यम् । तद् द्वयं वचनक्षणे एकीभावोपगतमिति युगपद्रहणम् । न अम्भोधरोदरेण-घनगर्भेण निरुद्धः-छन्नो महाप्रभावो-गुरुप्रतापो यस्य सः। अत्राम्भोधरशब्देन मतिश्रुतावधिमनःपर्ययकेवलानामावरणानि गृह्यन्ते । पञ्चभिरेतैरावरणैर्न तिरोहितज्ञानोद्दयोतः, अत एव सहस्रकिरणादधिकमाहात्म्योऽसि ॥ इति वृत्तार्थः॥
अत्र मन्त्रः
ॐ हीं उग्र(ग्ग?)तवचरणचारीणं ॐ हीं दित्ततवाणं ॐ ही तत्ततवाणं ॐ ही पडिमा. पडिवन्नाणं नमः स्वाहा ॥ परविद्योच्छेदिनी विद्या ॥ कथा यथा
चक्रा बहुदेवीयुग, नरके गुरुभूपजौ।
नीत्वा तौ पुनरानीय, कृतो धर्मोद्यतः सुतः॥१॥ सगरपुरे निर्जितानेकानेकपसङ्गरो निःस्वताधीनदीनजनधनसँङ्गरः सत्यसङ्गरः सङ्गरो राजा परमार्हतः। तस्य गुरवो धर्मदेवाचार्याः । अन्यदा राज्ञो गृहे पुत्रजन्म । स नाम्ना क्रियया च केलिप्रियः यौवनस्थः सकलाः कला जग्राह । धर्म नाकरोत् । व्यसनी भक्ष्याभक्ष्यपेयापेयगम्यागम्यसममतिः। राजा पुत्रं प्रबोधयतेति गुरूनगदत् । गुरवः केलिप्रियमुपादिक्षन् -भो कुमार !
"ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहु-रेभिश्च सह सङ्गमः ॥१॥-नुष्टुप् यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि ।। तँदा सजनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥२॥-अनुष्टुप् यः प्राप्य दुष्प्रापमिदं नरत्वं
धर्म न यत्नेन करोति मूढः। केशप्रबन्धेन स लब्धमधौ
. चिन्तामणिं पातयति प्रमादात् ॥ ३॥"-इन्द्रवना - १ युगपत् द्वौ न त उपयोगौ। मन्त्र वृत्ते' इति क-पाठः । ३ छन्दःशासप्रवीणैरिदं चरणं विचारणीयम् । ५ सङ्खामः। ५धनदः। ६ प्रतिज्ञः। ७ 'अथ सजन' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org