________________
अथ भगवन्नीरागतामाह
श्रीमानतुङ्गसूरिविरचितम्
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिनीतं मनागपि मनो न विकारमार्गम् ।
कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् १ ॥ १५ ॥
गु० वि० - हे सकलविकारनिकारपर! यदि त्रिदशाङ्गनाभिः - नरस्त्रीभ्योऽधिकरूपलावण्यशृङ्गारादिभिरधिकमोहन चेष्टाभिर्देवीभिस्ते मनः - अन्तःकरणं मनागपि - अल्पमात्रमपि विकारमार्ग - कामोत्कोचपथं न नीतं न प्रापितं अत्र - अस्मिन्नर्थे किं चित्रं - किमाश्चर्यम् ? । यतोऽन्यैरप्युक्तम्
एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोर गविष व्यासङ्गमूढो जनः
३९
शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ १ ॥ " - शार्दूल० अत्र दृष्टान्तः– कदाचित् - कस्मिंश्चित् क्षणे चलिताचलेन - कम्पितान्यपर्वतेन कल्पा • न्तकालमरुता-प्रलयसमयपवनेन मन्दराद्रिशिखरं - मेरुशृङ्गं किं चलितं - स्वस्थानात् किं धूतम् ? यतो युगान्ते सर्वपर्वतानां क्षोभो भवति, न सुमेरोः । तथा देवीभिरिन्द्र-चन्द्रगोपेन्द्र - रुद्रादयः क्षोभिताः, न जिनेन्द्रः । इति वृत्तार्थः ॥ १५ ॥
मन्त्रो यथा
Jain Education International
I
चवीस तीर्थंकरतणी आण । पञ्चपरमेष्ठितणी आण । चडवीस तीर्थंकरतणइ तेजि पञ्चपरमेष्ठितणइ तेजि । ॐ अर्ह उत्पत्तये स्वाहा । शुचिश्चतुर्दिक्षु कायोत्सर्गेऽष्टोत्तरशतजापे कृते स्वमे शुभाशुभं लभते । धनधान्यऋद्धिमहामहिमप्रभृतयः स्मरणाद् भवन्ति । ॐ ह्रीं पूर्व जिणाणं ओहिजिणाणं परमोहिजिणाणं अणंतोहिजिणाणं सामन्नकेवलीणं भवत्थकेवलीण अभवत्थवलीणं नमः स्वाहा । बन्धमोक्षिणी विद्या ।
प्रभावे कथा -
अचेष्टं नृपतिं गाढं, योगिनीदोषतो मुनिः ।
मन्त्र्यानीतो मल्लनामा, सज्जनं नीरुजं व्यधात् ॥ १ ॥ - अनु० श्री अयोध्यायां पुरि यथार्थनामा सज्जनो राजा । अन्यदा राज्ञो दुष्टयोगिनी दोषो लग्नः । सर्वाङ्गव्यथयाऽचेष्टनोऽजनि नृपः । मन्त्रिसामन्तादिभिर्बहवो रुक्प्रतिक्रियाः कारिताः, (परन्तु ) प्रतीकारः कोऽपि न जातः । ततो मन्त्रिणस्तत्रस्थं श्रीगुण सेनसूरिं व्यजि१ 'बन्धमोक्षे विद्या' इति क-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org