________________
भक्तामरस्तोत्रम् तद्वदुज्वलाः। अत्र अन्योक्तिहेत्वैलङ्कारयोः सङ्करेणाह-ये एकं नाथं संश्रिताः इत्यन्वयः । संश्रिताः' इति क्रियापदम् । के कर्तारः ? 'ये' जनाः । कं कर्मतापन्नम् ? 'नाथ' स्वामिनम् । किंवि० नाथम् ? 'एकं' अद्वितीयं-असाधारणम् । यत्तदोर्नित्याभिसम्बन्धात् तान् जनान् को निवारयति ? इत्यन्वयः । 'निवारयति' इति क्रियापदम् । कः कर्ता ? 'क' पुरुषः। कान् कर्मतापन्नान् ? 'तान्' । किं कुर्व. तस्तान् ? 'यथेष्टं यथेच्छया 'सञ्चरतः' प्रसरतः । तथाच समर्थस्वामिसेवकानां न कोऽपि कुत्रापि प्रतिरोधकः स्यादिति भवद्गुणानां स्वैरं प्रचारो युक्तः, सर्वोऽपि जनस्त्वद्गुणलिप्सुरिति भावः ॥ . समासाश्च-सम्पूर्ण मण्डलं यस्य स सम्पूर्णमण्डलः, स चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः, तस्य कलाः सम्पूर्णमण्डलशशाङ्ककलाः, तासां कलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः, तद्वत् शुभ्राः सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः । त्रयाणां भुवनानां समाहारत्रिभुवनं, पात्रादित्वान्न ईप् । लङ्घयन्तीत्यत्र 'प्रायः सर्वे चुरादयः' इति न्यायात् व्यन्तत्वम् । संश्रिता इत्यत्र वृश्रित्रश्च(?)कितः नेट् । त्रयाणां जगतां समाहारखिजगत् द्विगुः, त्रिजगत ईश्वरस्त्रिजगदीश्वरस्तस्य सम्बोधने हे त्रिजगदीश्वर! । 'एकशब्दः सङ्ख्यान्यासहायाद्वितीये(यादि)षु वर्तते' इति बृहद्वत्तिः। निवारयतीत्यत्र 'वर निवारणे' धातुः स्वार्थे त्र्यन्तः । सञ्चरत इत्यत्र तृतीयोपपदाभावानात्मनेपदम् । अत्र शशाङ्कशुभ्रा इत्यनुक्त्वा कलाकलापशुभ्रा इत्युक्तिः शशाङ्के श्यामलतासद्भावात् कलाकलापे तदसम्भवेनातिधवलत्वज्ञापनायेति । इष्टं अनतिक्रम्येति यथेष्टम् । 'यथाशब्दोऽसादृश्ये' इत्यव्ययीभावः । इति चतुर्दशवृत्तार्थः ॥ १४ ॥
___He considers the extent of God's virtues.
Oh master of the three worlds! Thy virtues shining like the collection of the digits of the moon having a complete disc are not contained in the three worlds. Who can prevent from walking freely those that have chosen Thee as their sole master?-14.
१ अन्योक्ति-लक्षणम्"सामान्य विशेष कार्य कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः"
-काव्या० (०६). २ हेतु-लक्षणम्
“यत्रोत्पादयतः किञ्चि-दर्थ कर्तुः प्रकाश्यते । तद्योग्यतायुक्तिरसौ, हेतुरुक्तो बुधैर्यथा ॥"
__-वाग्भटालङ्कारे (प० ४, श्लो० १०५) ३ सङ्कर-लक्षणम्"स्वातच्याङ्गत्वसंशयैकपद्यैरेषामेकन स्थितिः सङ्करः"
-काव्या०(अ०६). ४ 'युकः किति' इति पाणिनीये (६।४।९८)। ५ 'यथाऽसाहश्ये' इति सारखते (सू० ४७४)।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only