________________
श्रीमानलुङ्गसूरिविरचितम् दत्ता । क्रमेणोद्वाहो जातः । जन्ययात्रा भृगुपुरं प्रत्यच(व)लत् । सर्वे भद्रका देवाधिदेवप्र. तिमा नानिन्युः समम् , जिनवन्दनां विना डाही नाभुत । चिन्तापरा ऊचुः श्वशुरादयःवत्से! प्साहि, दुःखं कर्तुं न युक्तम्, (यतः) कन्याः शालिसधर्माणोऽन्यत्र जायन्तेऽन्यत्र वर्धन्ते । सा मौनमालम्ब्यास्थात् । उक्तं च
"कलाकलापसम्पन्ना, जल्पन्ति समये परम् ।
घनागमविपयोसे, केकायन्ते न केकिनः॥१॥"-अनु० भक्तामरस्तवं गुणयति स्म । एषा पितृगृहविरहव्यथामुद्वहतीति खिताः सर्वे निरशनाः, पन्थानं यातां यामिनी जाता। स्थिता जन्ययात्रा । त्रयोदशचतुर्दशवृत्ते गुणयन्त्यास्तस्याश्चक्रेश्वरी पुरः प्रादुर्भूता भौतीसमये, उवाच च-भद्रे ! प्साहि, तव किं न्यूनम् ? अहमादिदेवसेवापरा चक्रा। डाही जगाद-मगतं पूरयेति । ततो देवी चन्द्ररोधिःशुचितरं विषघ्नं हारमदाद् दिव्यामम्लानां कुसुममालां गुरूणां पादुके च । एषा वक् मुनिसुव्रतकण्ठे स्थाप्या, नित्यं रत्नमालेव स्थाता । तस्मिन्नर्चिते वन्दिते श्रीपाचोऽर्चितो वन्दित एव । जिनास्तुल्यगुणास्तुल्यफलदाः सर्वे । पादुकयोर्नतयोमाचार्यो नत एव । हारः खकण्ठाभरणीकरणीयः । विभाते मदर्पितहारमध्यमणिमध्यात् प्रादुर्भूतं प्रभूतमहिमानं श्रीपार्श्वबिम्बं सर्वसमक्षं नत्वा भोक्तव्यं चेत्युक्त्वा चक्राऽदृश्याऽभूत् । प्रातः सर्व श्वशुरादीनां मार्गेऽऽची(च)कथत् अदीदृशच्च अवसरज्ञा सा । उक्तं च
“यत्र स्ववचनोत्कर्षो, भाषन्ते तत्र साधवः ।
कलकण्ठः सदा मौनी, वसन्ते वदति स्फुटम् ॥१॥"-अनु० पारणं कृतम् । तुष्टाः सर्वे विस्मिताश्च । क्रमाद् भृगुपुरं प्राप्ताः । तया श्रीसुव्रतकण्ठे स्रगारोपिता । माला तादृगेवातिष्ठत् । गुरुपादुके नित्यं ननाम । हारादनेकशो विषापहारः कृतः । सत्यककन्यायाः सर्व सत्यं प्रभावं दृष्ट्वा श्वशुरपक्षो दृढधर्मो जातः। स्तवमहिमा प्रकाशितस्तया । चिरं सुखभोगभागभूत् डाही सुश्राविका ॥
॥ इति सप्तमी कथा ॥७॥ मे० वृ०-अथ गुणसम्पदं वर्णयन्नाह-(सम्पूर्णेत्यादि)
हे त्रिजगदीश्वर! हे त्रिभुवनस्वामिन् ! तव गुणास्त्रिभुवनं लछ्म्यन्ति इति सम्बन्धः । 'लङ्घयन्ति' इति क्रिया, अतिक्रामन्ति इत्यर्थः। के कर्तारः ? 'गुणाः', स्वभावजा ज्ञानादयोऽपि विभावजा औदादियो धर्माः । किं कर्मतापन्नम् ? 'त्रिभुवन' जगत्रयम्। किंवि० गुणाः ? 'सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः' सम्पूर्णमण्डल:-पूर्णिमासमुद्गतः शशाङ्क:-चन्द्रस्तस्य कला-अंशास्तेषां कलापः-समूहः
, 'देवप्रतिमा' इति क-पाठः। २ भोजनं कुरु। ३रानिसमये। ४ मुनिसुव्रतगले ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org