________________
भक्तामरस्तोत्रम् ज्ञपन्-राजानं सज्जीकुरुध्वमिति। गुरुभिरुक्तम्-द्रक्ष्यामः किमपि। निशि भक्तामरस्तवमन्त्र ध्यायतां तेषां पञ्चदशवृत्तगुणनक्षणे कयाचिद् देव्या मल्लर्षिपदोदकाभिषेकः सजनस्य सज्जताहेतुरुक्तः । प्रातर्मन्त्रिपुरो गुरव ऊचुः-गूर्जरदेशान्निशि नित्यकायोत्सर्गस्थास्नु दुर्गोपसर्गजिष्णुं महामहिमानं मल्लनामानं मुनीन्द्रमानाययध्वं यथा राजदोषो याति । इति श्रुत्वा चेलुः प्रधानानि(?) । तत्र गत्वाऽही नत्वाऽत्यर्थमभ्यर्थ्य चक्रादिदेवतावातसेवितः समानीतो मल्लर्षिः। चरणोदकेन राजा गतदोषोऽभूत् । समन्तान्मुनिमाहात्म्यमुदलसत् । उक्त च
"न व्योमयानं न हिरण्यसिद्धि
ने पादनीरेण गदोपशान्तिः । न काऽपि लब्धिर्न च काऽपि सिद्धिः
कोऽयं विशेषो जतिनां तपस्सु ? ॥१॥"-उपजातिः मल्लमुनिर्धर्ममुपादिशत्
"यथा चतुर्भिः कनक परीक्ष्यते
निघर्षणच्छेदनतापताडनैः । तथैव धर्मो विदुषा परीक्ष्यते
श्रुतेन शीलेन तपोदयागुणैः ॥ १॥"-उपेन्द्रवप्रा सर्वथा जीवरक्षा कार्येति जैनानां मुष्टिः।
"दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता ।
अहिंसायाः फलं सर्व, किमन्यत् कामदैव सा ॥१॥" इत्याकर्ण्य जीवदयाधर्म प्रपन्नः सज्जनः परमजैनोऽजनि राजा । सर्वेऽपि मन्त्रिणोऽहंधर्मपरा अभूवन् ॥
॥ इत्यष्टमी कथा ॥ ८॥ मे० वृ०-अथ प्रथमतो रागस्य दुर्जयत्वात् तज्जयमाह-(चित्रं किमत्रेत्यादि) हे वीतराग! चित्रं किमत्र यदि ते-तव मनस्त्रिदशाङ्गनाभिर्विकारमार्ग न नीतं इत्यन्वयः । 'नीत' इति अशुद्धं क्रियापदम् । काभिः कर्तीभिः ? 'त्रिदशाङ्गनाभिः' देववधूभिः । किं कर्म ? 'मनः' चित्तम् । पुनः किं कर्म ? 'विकारमार्ग' विषयरूपकुपथे, तद्वशं इत्यर्थः। द्विकर्मको 'णी प्रापणे' धातुः, तत्रापि मन इत्यत्र प्रथमा, 'न्यादीनां कर्मणो मुख्यस्योक्तत्वं प्रत्यया'दिति वचनात् । हे वीतराग! अन्न-अस्मिन् अर्थे किं चित्रं भवति ? न किमप्याश्चर्यम् । 'भवति' इति क्रियापदम् । किं कर्तृ ? 'चित्रम्' । कथम् ? 'मनागपि' अल्पमपि । "उषा निशान्ते । अल्पे किञ्चिन्मनागीषञ्च किश्चन" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org