________________
११
भक्तामर स्तोत्रम्
किंभूतैः ? शान्ताः - प्रशमं गता रागस्य - अनुरागस्य रुचिः - कान्तिर्येभ्यस्ते तथा तैः । सगसहम्वरितत्वाद् द्वेषपरिग्रहः । अथच (वा) शान्तनामा नवमो रसस्तस्य रागो - भावस्तस्य रुचि:छाया येषु तैः । खलु निश्चितं तेऽपि अणवः - परमाणवस्तावन्त एव - भगवद्रूपनिर्माणप्रमाणा एव वर्तन्ते । यद् - यस्मात् कारणात् पृथिव्यां - भूपीठे ते तव समानं-तुल्यमपरम्अन्यद्रूपं नहि अस्ति- न विद्यते । जिनरूपज्ञानगुणा अनुत्तरसूरेष्वपि न प्राप्ता औपम्यार्थं कविभिः तीर्थकृद्रूपं चिकीर्षवोऽमरा अपि न शक्ताः । उक्तं च ( आवश्यक-नियां गा० ५६९ ) -
"सुरा जइ रूवं, अंगुट्ठपमाणयं विउविज्झा |
• जिणपायंगुटुं पइ, न सोहए तं जहिंगालो ॥ १ ॥”
अथ यैः परमाणुभिः तेऽप्यणव इति पौनरुक्त्यम् । तत्रेयं व्याख्या - औदारिकवर्गणाग्राम भव्येभ्योऽनन्तगुणाणुनिष्पन्नाः स्कन्धा अनन्ताः सन्ति तेषु स्कन्धेष्वणवः स्तोका पत्र जिनरूपपरमाणवः । अणुशब्दः स्तोकवाची । अथवा महाकविप्रयुक्तत्वात् मन्त्रान्नायेन स्तुतिवशादन्यार्थापादनाद् वा न पौनरुक्त्यम् । उक्तं च
" संज्झायज्झाणतवो - सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसुं, न हुंति पुणरुत्तदोसाओ ॥ १ ॥”
इति ॥
मन्त्रश्चात्र
ॐ ह्रीं चउद्दसपुव्वीणं ॐ ह्रीं पयाणुसारीणं ॐ ह्रीं एगारसंगधारीणं ॐ ह्रीं उज्जुमईणं ॐ ह्रीं विउलमईणं नमः स्वाहा ॥ सारस्वती विद्या ॥ इति वृत्तार्थः ॥
महिमकथा यथा
Jain Education International
त्रयीरूपं विधायोच्चै - बहुरूपो व्यजृम्भत ।
जिनरूपं चिकीर्षुस्तु, देव्याऽऽहत्य विडम्बितः ॥ १ ॥
अङ्गदेशे चम्पापुरि कर्णो राजा । जिनधर्मरतो भक्तामर स्तवजापसको मन्त्री सुबुद्धिः । अन्यदा कश्चिच्चे की बहुरूपो भूपसदः समासदत् । स चेटकबलेन शङ्ख-गदा-चक्र-शार्ङ्गशालिभुजं कृष्णवर्ण तार्क्ष्यपत्र लक्ष्मीनाथं विष्णुमकार्षीत् । ततो धवलवृषवाहनं धवलवर्ण चन्द्रशेखरं गङ्गाधरं जटामण्डितमौलिं सर्वाङ्गभुजङ्गाभरणं भस्मलितकरणं शिवाकान्तं शिवमदर्शयत् । तदनु राजहंसयानं चतुर्मुखं श्रुतिपवित्रवाचं सावित्रीसनाथं विरचिं व्यरचयत् । अन्येऽपि (ग्रं०४००) स्कन्द-बुद्ध-गणपतिप्रभृतयः सुरा नृत्यन्तो दर्शितास्तेन । सर्वा पर्षद्
१ सर्वे सुरा यदि रूपं, अङ्गुष्ठप्रमाणं विकुर्वीरन् । जिनपादाङ्गुष्ठं प्रति, न शोभते तद् यथाऽङ्गारः ॥ २ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सन्तगुणकीर्तनेषु न भवन्ति पुनरुक्तदोषाः ॥ २ प्रधाय इति क-पाठः । ४ गात्रम् ।
For Private & Personal Use Only
www.jainelibrary.org