________________
श्रीमानतुङ्गसूरिविरचितम्
३.१.
रतिं लभते इति भावः । किंवि० भवन्तम् ? ' अनिमेषविलोकनीयं' निमेषो-नेत्रमीलनं तदभावः अनिमेषस्तेन विलोकयितुं योग्यस्तम् । दर्शने निमेषस्याप्यन्तराये महद्वैरस्याद् तत्फुल्लनेत्रतया जनैक्षणीय इति भावः, यद्वा अनिमेषाः - देवास्तेषामप्यतिशायिरूपत्वाद् वीक्षणयोग्यः, अत एव त्वां दृष्ट्वा नान्यत्र चक्षुर्विश्राम्यति । अर्थान्तरन्यासमाह - दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं रसितुं अशितुं वा क इच्छेत् ? अपि तु न कोऽपीत्यन्वयः । ' इच्छेत्' इति क्रियापदम् । अभिलषेदित्यर्थः । कः कर्ता ? 'जनः' । किं कर्तुम् ? 'रसितुं' अशितुं - उपभोक्तुं पातुमितियावत् । किं कर्मतापन्नम् ? 'जलम्' । कस्य ? ' जलनिधेः' लवणसमुद्रस्य । किंवि० जलम् ? ' क्षारम् । क्षारपदसन्निधानादेव जलनिधिसामान्य पदेन लवणसमुद्रो गृह्यते । किं कृत्वा ? 'पीत्वा' । किं कर्मतापन्नम् ? ' पयः' दुग्धम् । कस्य ? ‘दुग्धसिन्धोः' क्षीरसमुद्रस्य । रसाधिक्यार्थमिदम् । किंवि० पयः ? ' शशिकरद्युति' चन्द्रकिरणोज्ज्वलम् । पयःशब्देनात्र दुग्धमेव व्याख्येयं, न जलं, विशेषादान्तर्यध्वननात् ॥
समासाश्च-न निमेषः अनिमेषः - निमेषाभावः । ' कचित् प्रसज्यप्रतिषेधे नञ्समासः' इति भाष्यकारः । अनिमेषेण विलोकनीयः अनिमेषविलोकनीयस्तम् । शशः अस्मिन्नस्तीति शशी । आधारार्थे: लौकिकप्रसिद्धिः । सम्बन्धे ज्योतिःशास्त्रप्रतीतिः । यदुक्तं -
"अश्वः १ शशक २ वराहौ ३ श्येनो ४ घूक ५ स्तथा च मण्डूकः ६ । हुण्डु ७ घूक ८ कच्छपाः ९ स्यू रव्यादेर्वाहनानि पुनः ॥ १ ॥”
शशिनः कराः शशिकराः, शशिकरवद् द्युतिर्यस्य तत् शशिकरद्युति । दुग्धस्य सिन्धुः दुग्धसिन्धुः, तस्य दुग्धसिन्धोः । जलं नितरां धीयते अत्र जलनिधिः, तस्य जलनिधेः । ' रस रसने' धातोः रसितुमिति । 'अशशू (?) भोजने' इत्यस्य अशितुमिति वा ॥ इति एकादशवृत्तस्यार्थः ॥ ११ ॥
He mentions the fruit of seeing God.
After seeing Thee worthy to be unwinkingly looked at, the eye of a person does not find pleasure elsewhere. Who would desire to taste the brackish water of the (salt-) sea, when once he has drunk the milk of the milk-ocean shining like the rays of the moon ?-11
अथ भगवद्रूपवर्णनमाह
Jain Education International
30 उ
ॐ
यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥
गु० वि० - हे त्रिभुवनैकललामभूत ! - हे त्रिलोकाम्यशिरोग्रवर्तिमाल्यतुल्य ! पुरो न्यस्तं पुष्पाभरणं ललाममुच्यते । यैः परमाणुभिः - दलिकैर्निर्माणकर्मणा त्वं निर्मापितः कृतः ।
For Private & Personal Use Only
www.jainelibrary.org