________________
.३०
भक्तामरस्तोत्रम् दधतीत्यर्थः। अत्रोपमा-कः पुरुषो दुग्धसिन्धोः-क्षीरसमुद्रस्य पयो-दुग्धं पीत्वा जलनिधेः-लवणाम्भोधेः क्षारं-कटुकं जलं रसितुं-स्वादितुं-पातुमिच्छेत् ? अपितु न कोऽपि । दुग्धसिन्धोः पयः किंभूतम् ? शशिनः करस्तद्वद् द्युतिर्यस्येति शशिकरद्युति-चन्द्रकरनिमलम् । तीर्थकृद्रूपदर्शनं क्षीरसागरपयःपानसमं, अपरदेवरूपदर्शनं क्षारसमुद्रोदकस्वादसमानमिति वृत्तभावार्थः ॥११॥
मन्त्रश्चायम्
ॐ ह्रां अरहताणं सिद्धाणं सूरीणं उवज्झायाणं साहूणं मम ऋद्धिं वृद्धिं समीहितं कुरु कुरु स्वाहा। शुचिना प्रातःसन्ध्यायां वार ३२ स्मरणात् सर्वसिद्धिः कपर्दिकवत् कामधेनोः कामिताप्ति:
“कपर्दी नन्दिनीं धेनु-मधोक द्वात्रिंशतं दिनान् ।।
तत्क्षीरं स्वर्णलक्षाणि, प्रान्ते भूपं न्यमन्त्रयत् ॥१॥"-अनु० श्रीअणहिल्लंपत्तने चौलुक्यवंश्यकुमारपालदेवो राजा, भोपला नाम राज्ञी, वाग्भटो महामन्त्री । श्रीहेमचन्द्रसूरिगुरुदेशनाकर्णनात् राजा परमार्हतोऽजनि । इतश्च तत्र पुरि कपर्दी नाम दुर्गतो वणिगभूत्। स च भक्तामरस्तवं पपाठ वर्णमात्राशुद्धमेकमना उपवैणवं गुणयति स्म । एकदा तस्यैकादशवृत्तं ध्यायतः श्रीयुगादीशयक्षिणी साक्षाद्भूता अर्थार्थिने वरमदात्-नन्दिनी कामगवीरूपेण सायं त्वन्मन्दिरे समेताऽस्म्यहम् । त्वया कोरकुम्भे दुग्धं सुवर्ण भवितेत्युवाच तथा चकार च । यावदेकत्रिंशद् घटाः स्वर्णपूर्णा जाता देवीमुत्कलापनाय समैत् । कपर्दी जजल्प-देवि ! भूरि भूरि दानेनानुगृहीतोऽहं भवत्या, परमेकदिनं धेनुरूपेणागन्तव्यं यथा तत्क्षीरं क्षैरेयीं कृत्वा राजादिकं भोजयामि। इति प्रतिपन्नं, तत् चक्रया कृतं च । द्वात्रिंशदहरन्ते सान्तःपुरपरीवारं नृपं न्यमन्त्रयत् । श्रीहेमाचार्याश्च पादावधारिताः(१)। अशनसामग्री न काऽपि । राजादीनामासनानि प्रदत्तानि । कपर्दी घटं परमान्नभृतमानैषीत्। यथारुचि परिवेषयामास । गुरूंश्च पूर्ण प्रत्यलाभयत् । राजादयः सुरसं सुरभि सुधासममाकण्ठं परमान्नं बुभुजिरे यत् पूर्व नाभुञ्जन् । नात्रुटत् भोजनान्ते एकत्रिंशद्' हाटकघटा दर्शिताः। तेन विस्मितानां तेषां पुरः स्तवमहिमा प्रकाशितः । स्त्रं स्वं स्वेच्छं भुक्ष्वेति राज्ञोक्तम् । गुरुनृपवाग्भटादयोऽपि रञ्जिताः कपर्दिनं तुष्टुवुः । स भक्तामरस्तवप्रभावं वर्णयामास । चिरं विभवसुखसहितो जिनधर्म प्रभावयामास ॥
॥ इति पञ्चमी कथा ॥५॥ मे०वृ०-अथ आस्तां स्तवनं, किन्तु त्वदर्शनमपि मनोहरमित्याह-(दृष्ट्वेत्यादि) __ हे नाथ ! जनस्य चक्षुः अन्यत्र तोषं न उपयातीत्यन्वयः । 'उपयाति' इति क्रियापदम् । किं कर्तृ ? 'चक्षुः' । कस्य ? 'जनस्य'। कं कर्मतापन्नम् ? 'तो' सन्तोष तृप्तिमित्यर्थः । कुत्र ? 'अन्यत्र' अन्यस्थाने । कथम् ? 'न' । किं कृत्वा ? 'भवन्तं दृष्ट्वा' (त्वां) विलोक्य । त्वदर्शनाल्लब्धरसं जननयनं नार्थान्तरेषु १ 'दुग्धं जलं पीत्वा' इति क-ख-पाठः। २ 'पुरपत्तने' इति ख-पाठः। ३ सवेणुवाद्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org