________________
श्रीमानतुङ्गसूरिविरचितम्
२९
1
किं स्यात् इत्यन्वयः । 'स्थात्' इति क्रियापदम् । किं कर्तृ ? 'किं' कार्यम् । केन ? 'तेन' स्वामिना । आश्रितेनेति शेषः । आक्षेपोक्त्या न किमपि इत्यर्थः । तेन केन ? यः स्वामी आश्रितं - सेवकं भूत्या- सम्पदा - आत्मसमं न करोतीत्यन्वयः । 'करोति' इति क्रियापदम् । कथम् ? 'न' । कः कर्ता ? 'यः' स्वामी । कं -कर्मतापन्नम् ? 'आश्रितम्' । किंविशिष्टम् ? 'आत्मसमं' स्वतुल्यम् । कया ? 'भूत्या' । केचित् तु पूर्वान्वये हे भुवनभूषणभूत! हे नाथ ! इत्यामन्त्रणाभ्यामन्वयं कुर्वन्ति, तत्र भूतशब्द उपमार्थे वाच्यः ॥
समासा यथा— अति - अत्यन्तं - अतिक्रान्तं अद्भुतं अत्यद्भुतम् । 'अतिरतिक्रमे ' इति सिद्धम (अ० ३, पा० १, सू० ४५ ) सूत्रात् तत्पुरुषसमासः । भुवनस्य भूषणं भुवनभूषणं, तत्सम्बोधनं क्रियते हैं भुवनभूषण ! | भूतानां नाथः भूतनाथः, तत्सम्बोधनं हे भूतनाथ ! । प्राणिनां पालकत्वात् आत्मनः समः आत्मसमस्तं आत्मसमम् ॥ इति दशमकाव्यार्थः ॥ १० ॥
He declares the fruit of praising God.
Oh Lord! oh ornament to the universe! It is not a matter of great surprise that those who praise Thee on this earth by singing Thy really existing merits attain Thy status ( become Thy equals). Or else what is the use of him (that lord) who does not raise his devotee to the same level of prosperity where he is ?-10
法
अथ जिनदर्शनफलमाह -
आई
矮
दृष्ट्ा भवन्तमनिमेषविलोकनीयं
नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः
क्षारं जलं जलनिधे रसितुं क इच्छेत् ? ॥ ११ ॥
गु०वि०-हे प्रसन्नरूपस्वरूप ! अभिभेषेण-निर्निमेषेण विलोक्यते-दृश्यत इत्यनिमेषविलोकनीयतं भवन्तं त्वां दृष्ट्वा वीक्ष्य जनस्य-द्रष्टुर्भव्यस्य चक्षुः- नेत्रं अन्यत्र - देवान्तरे म तोष- चित्तानन्दमुपयाति - उपैति उमास्वातिवाचकवत् । सोऽदृष्टपूर्वा जिनमूर्ति दृष्ट्वा स्तुतिं पठितवान्
Jain Education International
"वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् ।
न हि कोरसंस्थेनौ, तरुर्भवति शाद्वलः ॥ १ ॥ " - अनु० ततोsन्यत्र शिवादौ विरक्तो जिनधर्मदर्शनासक्तोऽभूदुमाखातिर्द्विजसूनुरात्तव्रतः सूरिपदमाप । क्रमात् पूर्वगतवेत्ता वाचकोऽभूत् ॥ चक्षुरिति जातावेकवचनम् । ध्या• निनो भवन्मुद्रास्वरूपावबोधार्थं स्थिरीभूय निर्निमेषदृशस्त्वां पश्यन्तोऽपरसुखेष्वरुचिं
१ आक्षेप-लक्षणम् -
"विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः”
- काव्या० (अ० ६)
For Private & Personal Use Only
www.jainelibrary.org