________________
२८
भक्तामर स्तोत्रम्
दादीशं स्वामिनं सेवायै समग॑साताम् । निशितनिस्त्रिंशधरौ यत्र स्वामी क्रमौ न्यवीविशत् ततो भुवः कण्टकाद्युदधरतां दंशमशकादिकमरक्षताम् । प्रातः स्वामिपार्श्वभुवं प्रमा नलिनीदलानीतनी रेणाभ्यषिञ्चताम् । बकुलकमलपाटलादिकुसुमप्रकरं विस्तार्य चरणावभ्यस्मद्वाञ्छितदो भवेत्युक्त्वा नमोऽकाम् । उभयपार्श्वयोरसिधरौ तीर्थनाथमसेविषाताम् । एवं मध्यंदिने सन्ध्यायामपि वन्दित्वा कामितमयाचताम् । इत्थं जङ्गमं तीर्थ समाश्रयतोर्नमिविनम्योर्गतः कियान् कालः ॥
एकदा घरणेन्द्रश्चलितासनः स्वामिनं निनंसिषुरैत् । नमस्कृतो भावसारं भगवान् स्तुतश्च तावपश्यत् । कौ युवां किमर्थ परमगुरुसेवायै लग्नावित्यपृच्छत् । तावूचतुः - भो महाशय ! कच्छ महाकच्छ सुतौ नमिविनमी क्षत्रियावावाम् । राज्यार्थं नाथं सेवितुमा - रभावहि । पातालेन्द्रोऽवदत्- निरीहो निर्ममो मुक्तसर्वसङ्गो भगवान् किं वितरिष्यति ? निर्धनात् का धनप्राप्तिः ? । न च कस्मै रुष्यति न तुष्यति नीरागत्वादसौ । भरतं भजत । स सकाञ्चनस्तुष्टये राज्यांशं युवाभ्यां दास्यति । तौ स्माहतुः - शृणु भो ! स्वामी यादृक् त्वयोक्तस्तादृगस्तु । आवाभ्यां वाञ्छितायासावाश्रितः, सफलो भवतु मा भवतु वा, भरत न सेवावहै । कल्पवृक्षं मुक्त्वा कः कर्कन्धूं स्वीकुरुते ? काञ्चनं त्यक्त्वा क और मादत्ते ? चिन्तामणि हित्वा कः कर्करकं ग्रन्थौ बध्नाति ? रत्नाकरं विहाय को लवणाकरं श्रयते ? इति जानीहि । इहामुत्रावयोः स्वाम्ययमेव । फणीन्द्रस्तयोरद्वितीयां भक्तिं मत्वा श्रीऋषभरूपं विकृत्याष्टचत्वारिंशत् सहस्राणि मन्त्रानगदत् । रोहिणीप्रमुखाः साम्नाया देव्यः प्रत्यक्षीकृत्य दत्तास्तेन वैताढ्ये दक्षिणोत्तर श्रेणी पञ्चाशत्पष्टिपुरस्थापना कृता खेचरतामगाता तौ । धरणेन्द्रः सर्वा स्थितिं कृत्वा नागनिकायमगमत् । तत्सम्बन्धिनः स्वजनाः सर्वे विद्याधरतां प्रापुः । तौ विमानयानसमानश्रीप्रौढौ नव्यदिव्यविमानारूढौ भरतभूपायात्मानं दर्शयित्वा दक्षिणश्रेणी रथनूपुरचक्रवालपुरे श्रीनमिः, उत्तरश्रेणौ गंगनवल्लभपुरे विनमिश्च राज्यमकुरुताम् । निरुपमभोगैर्बहुकालं निर्गमय्य विद्याधरेन्द्रपदं स्वपुत्राभ्यां दत्त्वा गृहीतव्रतौ कोटीद्वयेन मुनीनां सहितौ श्रीशत्रुञ्जये श्री नाभेयजिनलब्धं सिद्धिपदं प्रापतुः । इत्याश्रितं स्वतुल्यं कुर्वते प्रभवः ॥ इति वृत्तार्थः ॥ १० ॥
1
1
में० वृ० - अथ स्तवनस्य रेखाप्राप्तं महिमानमाह - ( नात्यद्भुतमित्यादि )
भुवनभूषण ! हे भूतनाथ ! जना भुवि भवतः तुल्या भवन्तीत्यन्वयः । ' भवन्ति' इति क्रियापदम् । के कर्तारः ? 'जना:' । कथंभूताः ? 'तुल्याः समानाः । कंस्य ? 'भवतः ' । 'तुल्यार्थैस्तृतीयाषष्ठयाँ' (सिद्ध०अ० २, पा० २, सू० ११६) इति षष्ठी । किं कुर्वतः ? 'अभिष्टुवन्तः ' स्तवं कुर्वन्तः । कं कर्मतापन्नम् ? 'भवन्तं' त्वाम् । कैः करणभूतैः ? 'गुणैः' औदार्यादिभिः । किं वि० ? 'भूतैः' सद्रूपैः । `क्रस्याम् ? ‘भुवि' पृथिव्याम् । हे भुवनभूषण ! - हे जगन्मण्डन ! तत्-तुल्यभवनं, नात्यद्भुतं - न अत्याश्चर्य, तव स्तवनमाहात्म्यात् त्वद्रूपा भवन्तीति भावः । अत्र व्यतिरेकमाह - ननु - निश्चितं वा तेन स्वामिना १ 'कान्युद' इति ख- पाठः । २ बदरीम् । ३ पितलम् ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org