________________
श्रीमानतु सूरिविरचितम्
विस्मयं गता । पुनरुवाच चेटकी - भो सुबुद्धे ! त्वद्देवं जिनं शिवपदादानयामीति भणित्वा यावत् तीर्थकृद्रूपं कर्तु लग्नः, ताधन्मन्त्रिप्रारब्धद्वादशवृत्तगुणनेनाविर्भूतचक्रेश्वर्या चपेटयाssहत्य धरायां क्षिप्तः । तस्य नष्टा देवकला । कपटं प्रकटं जातं वह्नितापेन हीनरूप्य वत् । आह स्म देवी – रे रे मूर्खशेखर! दुष्टाशय ! निरञ्जनं वागगोचरचरित्रमरूप परालक्षस्वरूपं सर्वसुरोत्कृष्टं जिनरूपं चिकीर्षुः कथं प्राणिषि ? | यदि जीविताशा तदा सुबुद्धिं दैवतमिव भजस्व । इति भणनानन्तरमेव महामात्य क्रमयोरपतच्चेटकी । तुष्टा भूपादयः । मन्त्री भक्तामरस्तवमहिमानमवर्णयद् धर्मं च ।
"विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय । अभ्युन्नतिर्लोकपराभवाय
तथा-
किच
येषां प्रकाशस्तिमिराय तेषाम् ॥ १ ॥ - इन्द्रबजा
"धम्म्म नत्थि माया, न य कवर्ड नाणुवत्तिभणियं वा । फुडपागडमकुडिलं, धम्मवयणमुज्जुयं जाण ॥ २ ॥” - आर्या
" हिंसामङ्गिषु मा कृथा वद गिरं सत्यामपापावहां स्तेयं वर्जय सर्वथा परवधूसङ्गं विमुञ्चादरात् । कुर्विच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज
प्रीतिं जैनमते विधेहि च परां धर्मे यदीच्छाऽस्ति ते ॥ ३ ॥ " - शार्दूल इत्याकर्ण्य बहुरूपो जिनधर्ममादृतवान् । चक्रेश्वरी तिरोऽभूत् । सर्वे परमदैवतमन्त्रमिव स्तोत्रं पेटुः । सुबुद्धिः सद्बुद्धिः सकलसंसारसुखभाजनं सर्वलोकमान्योऽभूत् ॥ ॥ इति षष्ठी कथा ॥ ६॥
मे० वृ० - अथैतादृग् रूपातिशयः कुत इत्याशङ्कानिरासाय प्राह - ( यैः शान्तेत्यादि )
त्रिभुवनैकललामभूत ! - हे जगत्रितयाद्वैततिलकोपमान ! यैः परमाणुभिस्त्वं निर्मापितः असि इत्यन्वयः । ‘असि' इति क्रियापदम् । कः कर्ता ? ' त्वम्' । किंवि० ? 'निर्मापितः' सम्पादितः । कैः कर्तृभिः १ 'परमाणुभिः' । कः कर्मरूपः ? 'त्वम्' । किंविशिष्टैः परमाणुभिः ? 'शान्तरागरुचिभिः' व्यपगीतरागकान्तिभिः । 'खलु' निश्चितम् । ते अणवः पृथिव्यामपि तावन्त एव सन्तीत्यन्वयः । 'सन्ति' इति क्रियापदम् । के कर्तारः १ 'अणवः' सूक्ष्मा निर्विभागा भागाः । किंविशिष्टा अणवः ? ' तावन्तः ' तत्परिमाणाः, त्वद्देहनिर्माणपरिमेयाः । कस्याम् ? 'पृथिव्यां ' भूमौ । कथम् ? 'अपि । अत्र हेतुमाह यद्
1
१ धर्मे नास्ति माया न च कपटं नानुवृत्तिभणितं वा । स्फुटप्रकटमकुटिलं धर्मवचनमृजुकं जानीहि ॥
भ० ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org