________________
भक्तामर स्तोत्रम्
।
1
समासाश्च - तव संस्तवः त्वत्संस्तवः षष्ठीतत्पुरुषः । युष्मच्छब्दस्य ' त्वन्मदेकत्वे ०' (सा० सू० ३३०) इति त्वदादेशः । भवानां सन्ततिः भवसन्ततिः, भवसन्तत्या संनिबद्धं भवसन्ततिसंनिबद्धम् । उपैति इत्यत्र इणेधिवर्जनान्नोपसर्गाकारलोपः । शरीरं भजन्तीति शरीरभाजस्तेषां 'भजां विणू ' (सा० सू० १२३२) इति विणू प्रत्ययः । आक्रान्तो लोको येन तत् आक्रान्तलोकम् । अलिवन्नीलं अलिनीलं, मध्यलोपी समासः । न विद्यते शेषो यत्र तत् अशेषम् । सूर्यस्य अंशवः सूर्याशवः, सूर्याशुभिर्भिन्नं सूर्यांशुभिन्नम् । शर्वर्यां सम्भूतं शार्वरं 'तत्र कृतलब्धक्रीतसंभूते' (अ० ६, पा०३, सू० ९४) इति सिद्धहेमसूत्रादण्, शर्वर्यां भवं शार्वरमिति कौशल्यां; 'वर्षाकालेभ्यः' (सिद्ध० अ० ६, पा० ३, सू० ८०) इति हैमसूत्रेण, तथा 'कालाट्ठञ्' (अ० ४, पा० ३, सू० ११) इति पाणिनीयसूत्रेण कथमिह ठञ् प्रत्ययो नेति न चिन्त्यं, अर्थविशेषत्वात्, 'नैशो मार्ग : सवितुरुदये सूच्यते कामिनीना' मिती व शारदं पार्वणः शर्वरीसार इत्यादि महाकविप्रयोगाच्च, सिद्धान्तकौमुद्यां तु - 'शार्वरस्य तमसो निषिद्धये ' इति कालिदासः, 'अनुदितौषसराग' इति भारविः, समानकालीनं प्राकालीनं इत्यादि च, 'अपभ्रंशा एवैते' इति प्रामाणिकाः इत्युक्तं, शर्वर्या इदं शार्वरमिति कश्चित् । अन्धं करोतीत्यन्धकारः, पुंनपुंसकः । यथा सूर्योदिते तिमिरक्षयस्तथा त्वत्संस्तवनात् पापक्षयः, न च अत्रापसिद्धान्तः, अर्हद्वर्णसंज्वलनस्य भावस्तवत्वेन भगवत्याद्यागमेऽपि महाफलत्वेन उक्तत्वात्, 'पूजाकोटिसमं स्तोत्रं इति लोकेऽपि सिद्धत्वाच्चेति, तद् विचिन्त्य यथाशक्त्याऽत्र प्रवर्तनीयमेवेत्याशयः ॥ इति सप्तमकाव्यार्थः ॥ ७ ॥
२२
He points out the advantages of praising God.
The sins of the embodied souls accumulated within a series of births are instantaneously annihilated by praising Thee, as is the case with the jet-black nocturnal darkness pervading the universe, when pierced by the rays of the sun. (7)
30
32 法
स्तवारम्भसामर्थ्यं दृढयन्नाह
矮
Jain Education International
मत्वेति नाथ ! तव संस्तवनं मयेदमारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥
गु० वि० - हे विश्वविघ्नप्रमाथ ! नाथ ! पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं सर्वपापहरं चेति मत्वा - अवध्य मया भक्तिपरवशेन तनुधियाऽपि स्वल्पमतिनाऽपि इदं - प्रत्यक्षं भण्यमानं तव संस्तवनं भवतः स्तोत्रं कर्तुमिति शेषः, आरभ्यते-करणायोद्यम्यते । इदं चस्तर्वनं मत्कृतमपि तव प्रभावात् भवतोऽनुभावात् सतां - सज्जनानां विदुषां चेतो हरिष्यति - मनो हरिष्यति, न तु दुर्जनानाम् । सन्त एवान्यगुणग्रहणे लम्पटाः । उक्तं च१ ' स्तवनक०' इति क-पाठः । २ ' वनमकृत' इति क- ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org