________________
२३
श्रीमानतुङ्गसूरिविरचितम्
. २३ "मनसि वचसि काये पुण्यपीयूषपूर्णा
स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? ॥१॥"-मालिनी न तु खलाः । उक्तं च
"सीसं धुणियं हिययं चमक्कियं पुलइयं च अंगेहिं ।।
तहवि हु खलस्स वाणी, परगुणगहणे न नीसरिआ ॥" ननु निश्चये उदविन्दुः-वारिच्छटा नलिनीदलेषु-कमलिनीपत्रेषु मुक्ताफलद्युति-मौक्तिकच्छायां उपैति-उपागच्छति । अत्र 'उदकस्योदः०' (पा० अ० ६, पा० ३, सू० ५७ ) इति निपातः । अत्र तव प्रभावात् सतां मनोहरं स्तवनमित्युक्ते स्तवस्याऽऽसमाप्तेः कर्तुः श्रोतुरध्येतुश्च श्रेयःसूचनं निर्विघ्नताकथनं च । यदुक्तं च
"श्रेयांसि बहविघ्नानि, भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥ १॥"-अनु० इति । यथा पद्मिनीपत्रस्थजलबिन्दुर्मुक्ताच्छायां धत्ते तथा तव प्रभावगुणाश्रयणात् स्तवोऽपि विद्वच्चित्तानन्दनं कतो । इति वृत्तगर्भार्थः ॥८॥ मे० वृ०-अथ पापक्षयार्थिनां स्वत एवास्योपादेयता भविष्यतीत्याह--(मत्वेत्यादि.)।
हे नाथ ! मया इदं वक्ष्यमाणं त्वत्संस्तवनं आरभ्यते-प्रारम्भक्रियाविषयीक्रियते इत्यन्वयः । कर्मणि उक्तिः । 'आरभ्यते' इति क्रियापदम् । केन का ? 'मया' । किं कर्मतापन्नम् ? 'संस्तवनं' स्तोत्रम् । किंविशिष्टं संस्तवनम् ? 'इदं' बुद्धिस्थम् । किंविशिष्टेन मया ? 'तनुधिया' स्वल्पबुद्ध्या । किं कृत्वा ? 'इति मत्वा' एवं ज्ञात्वा । इतीति घण्टालालान्यायेन इदमिति पदस्य उभयत्र सम्बन्धात् इदं संस्तवनं सतां चेतो हरिष्यति-आक्षेप्स्यति वशं नेष्यतीतियावत् इत्यन्वयः । 'हरिष्यति' इति क्रियापदम् । किं कर्तृ ? 'संस्तवनम्' । किं कर्मतापन्नम् ? 'चेतः'। केषाम् ? 'सताम्' । कस्मात् ? 'प्रभावात् । कस्य ? 'तव'। ननु-निश्चितम् उदबिन्दुः मुक्ताफलद्युति उपैति (इत्यन्वयः)। (उपैति') इति क्रियापदम् । कः कर्ता ? 'उदबिन्दुः' जलकणः । कां कर्मतापन्नाम् ? 'मुक्ताफलद्युति' मौक्तिककान्तिम् । केषु? 'नलिनीदलेषु' कमलिनीपत्रेषु । आधारप्रभावादतादृशं वस्त्वपि परमशोभां प्राप्नोति । यदुक्तं
मालिनी-लक्षणम्
ननमयययुतेयं मालिनी भोगिलोकै" २ छाया
शीर्ष धुतं हृदयं, चमत्कृतं पुलकितं चाङ्गः ।
तथापि तु खलस्य वाणी, परगुणग्रहणे न निस्सृता ॥ ३ तहविह परगुणगहणे खलस्स वाणी न नीरसिआ' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org