________________
२१
श्रीमानतुङ्गसूरिविरचितम् - धूलीपा देवीतर्जितः श्रेष्ठिचेष्टितं ज्ञात्वा कथमपि श्रेष्ठिनः चरणे शरणमसरत् । श्रेष्ठी राजस्थानमानयत् तम् । ततो धूलीपा विदितसर्वोदन्तः सुधनादु धर्म सुश्राव । यथा
"हिंसा त्याज्या नरकपदवी संत्यमाभाषणीयं
स्तेयं हेयं सुरतविरतिः सर्वसङ्गान्निवृत्तिः। जैनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः
सर्पिर्दुष्टं किमलमियता यत् प्रमेही न भुते ॥१॥"-स्रग्धरा "देवेषु वीतरागाद्, देवो व्रतिषु व्रती च निर्ग्रन्थात् ।
धर्मश्च क्षान्तिकृपा-धर्मादस्त्युत्तमो नान्यः ॥२॥"-आर्या इति धर्म श्रुत्वा सम्यक् सम्यक्त्वधरोऽभूत्, श्रेष्ठिनं च गुरुमिव मेने । देव्या धूलिरुपशमिता । सूर्याशुसदृशं जिनशासनप्रतापं व्यतिस्तरत् (?) सुधनः । देवाधिदेवं दृष्ट्वा तुष्टाव धूलीपाः।
जिनेन्द्रचन्द्रप्रणिपातलालसं ___ मया शिरोऽन्यस्य न नाम नम्यते । गजेन्द्रगल्लस्थलपानलम्पटं
शुनीमुखे नालिकुलं निलीयते ॥१॥-वंशस्थम् इति सर्वोऽपि जनो भक्तामरस्तवमध्यगीष्ट, गरिष्ठगरिममन्दिरं श्रेष्ठी जातः॥
॥ इति तृतीयकथा ॥३॥ मे० वृ०-अथ प्रवृत्तिहेतुमाख्याय सर्वजनदिव्यताहेतुमाह-( त्वत्संस्तवेनेत्यादि )।
हे मुनीश ! त्वत्संस्तवेन पापं क्षणात् क्षयं उपैति इत्यन्वयः । 'उपैति' इति क्रियापदम् । किं कर्तृ ? 'पाप' कल्मषम् । कं कर्मतापन्नम् ? 'क्षयं प्रलयं विनाशमितियावत् । केषाम् ? 'शरीरभाजां' प्राणिनाम् । कस्मात् ? 'क्षणात्' घटिकाषष्ठांशात् । केन ? 'त्वत्संस्तवेन' । करणे तृतीया । किंवि० पापम् ? 'भव(सन्तति)सन्निबद्धं' जन्मश्रेणिसञ्चितम् । अतिबहुलमित्यर्थः । अत्र दृष्टान्तमाह-किमिव ? अन्धकार. मिव । इव-यथा । अन्धकार क्षणात् क्षयं उपैति इत्यन्वयः। 'उपैति' इति क्रियापदम् । किं कर्तृ ?
अन्धकारम्'। किं कर्मतापन्नम् ? 'क्षयम्'। किंवि० ? 'शावर' रात्रिसम्भूतम् । पुनः किं. १ 'आक्रान्तलोकं' व्याप्तविश्वम् । पुनः किं० ? अलिनीलं' भ्रमरकृष्णम् । “कालो नीलोऽसितः शितिः" (अभि० का०६, श्लो० ३३) इति हेमसूरयः । पुनः किंवि० ? 'अशेष' समस्तम् । पुनः किंवि० १ 'सूर्याशुभिन्नं' आदित्यकिरणविदीर्णम् । कथम् ? 'आशु' शीघ्रम् ॥ , 'शरणे' इति क-पाठः । २ 'नानृणं भा०' इत्यपि पाठः । ३ किमिदमियता इति ख-पाठः । वंशस्थ-लक्षणम्
"जतौ तु वंशस्थमुदीरितं जरौ”
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org