________________
भक्तामरस्तोत्रम् उक्तं च___ "रवेरेवोदयः श्लाघ्यः, किमन्यैरुदयान्तरैः ।
न तमांसि न तेजांसि, यस्मिन्नभ्युदिते सति ॥ १॥”-अनु० इति वृत्तभावार्थः ॥७॥ अत्र मन्त्रोऽपि यथा
ॐ ह्रां ह्रीं हूं ऋषभशान्तिधृतिकीर्तिकान्तिबुद्धिलक्ष्मीह्रीं अप्रतिचक्रे ! फद विचकाय(य) स्वाहा । शान्त्युपशान्तिसर्वकार्यकरी भव देवि! अपराजिते ! ॐ ठः ठः। राजकुले विवादे कटकादिषु स्मर्यते । एतन्माहात्म्ये सुधनोदाहरणम्__ "दिवाऽपि तमसाऽऽकीर्णाः, श्रेष्ठिभूपजिनालयाः।
धूलीपावैष्णवावासौ, रजोव्याप्तौ स्तवस्मृतेः॥१॥"-अनु० पाटलीपुरे पत्तने परमजैनः सुवासनः सधनः सुधननामा श्रेष्ठी बभूव । स स्वकारितप्रासादे श्रीआदिदेवस्यार्चामानर्च । तत्सम्पाद् राजा भीमः श्रावकोऽभूत् । उक्तं च (नीतिशतके श्लो० १९)
“जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ? ॥१॥"-वसन्त० - अन्यदा तत्र पुरोद्याने वैष्णवो धूलीपा नाम योगी आगात् । स च सिद्धक्षुद्रचेटकः सेवकीकृतपाषण्डिपेटकः पाटलीपुरीयं सर्वजनमाचकर्ष निजकलया। ततोऽसौ चित्ते जहर्ष कञ्चन जनं पप्रच्छ च-मत्सेवनाय को नायाति नागरः ? । सोऽवदत्-श्वेताम्बरदर्शनभक्तिदृढी राजश्रेष्ठिनौ नायाताम् । धूलीपाश्चेटकशक्त्या जिनराजश्रेष्ठिगृहेषु धूलीवृष्टिमकरोत् । प्रातः श्रेष्ठी पांसुपतिपातेन प्रसृतं तमो दृष्ट्वा भक्तामरस्तवसप्तमवृत्तगुणनावसरे प्रकटीचक्रे चक्रेश्वरीम् । सा चाहेच्छासनप्रभावनाचिकीः सुधनवचसा जिनभूपश्रेष्ठिगृहगतां धूलिं निरस्य वैष्णवमन्दिरे धूलीपास्थाने च पांसुपूरमक्षिपत् । किमपि नास्फुरद् योगिनः । फालभ्रष्टद्वीपीव विलक्षः स्थितः। उक्तं च- "तावद् गर्जन्ति मातङ्गा, वने मदभरालसाः।
लीलोलालितलाङ्गालो, यावन्नायाति केसरी ॥१॥"-अनु० ..., 'अथान्यदा तत्पुरो०' इति ग-पाठः। २ 'धूलीपनामा' इति ग-पाठः। ३ 'फल०' इति ग-पाठः। ४ 'लासितं' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org