________________
श्रीमानतुङ्गसूरिविरचितम्
अथ समासाः तेन प्रकारेण तथा इत्यव्ययम् । भक्तेर्वशः भक्तिवशः, तस्मात् भक्तिवशात् । मुनीनामीशः मुनीशः, तत्संबोधने हे मुनीश ! । स्तवनं स्तवः तं स्तवम् । विशेषेण गता विगता, 'नान्नश्च ० ' (सा० सू० ५३९) इति समासः, विगता शक्तिर्यस्य स विगतशक्तिः । प्रवर्तते स्म इति प्रवृत्तः । आत्मनो वीर्य आत्मवीर्य, तद् आत्मवीर्यम् । न विचार्य अविचार्य । मृगाणामिन्द्र इव इन्द्रः मृगेन्द्रस्तम् । अभ्येतीत्यत्र 'इण् गतौ' धातुः अभिपूर्वः अदादिः । निजश्चासौ शिशुश्च निजशिशुः कर्मधारयः, तस्य निजशिशोः; निजस्य शिशुरिति तत्पुरुषः कौशल्याम् । “निजः पुनः” (अभि० का० ३, श्लो० २२५) “आत्मीयः स्वः स्वकीयश्व” (अभि० का० ३, श्लो० २२६ ) इति हेमसूरयः । परिपालनस्य अर्थः- प्रयोजनं यस्य क्रियायां तत् परिपालनार्थम् । क्रियाविशेषणत्वात् नपुंसकत्वं, अत एव ईशार्थमिति किरातार्जुनीयायां काव्यवृत्तौ घण्टापथमध्ये ईशार्थं यथा तथेति क्रियाविशेषणं, अर्थेन नित्यसमासः सर्वलिङ्गता च वाच्या इति, परिपालनायेति परिपालनार्थं, 'तदर्थार्थेन' (सिद्ध० अ० ३, पा० १, सू० ७२ ) इति हैमवचनात्, अर्थशब्देन समासस्तत्पुरुषः ॥ इति पञ्चमकाव्यार्थः ।। ५ ।। :- He justifies his attempt.
Oh master of the saints! in spite of this, being induced by devotion, I, that very man, though powerless, proceed to praise Thee. Without being conscious of its power does not (even) an antelope rush against the king of beasts (lion) in order to protect its young one, owing to the affection it cherishes for it? (5)
法
站 30
अथ कविरसामर्थ्येऽपि वाचाटताहेतुमाह
अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ।
यत् कोकिलः किल मधौ मधुरं विरौति
तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥
3
गु०वि० - हे विश्वविश्रुत ! श्रुतधरवैरिवसितचरण ! त्वद्भक्तिरेव त्वच्छुश्रूषैव बलात्हठादतिशयात् मां-मानतुङ्गाचार्य मुखरीकुरुते - अबद्धमुखीकरोति वाचालं विधत्ते इत्यर्थः । मां किंभूतम् ? अल्पानि - स्तोकानि श्रुतानि - शास्त्राणि यस्येति विग्रहस्तम् । अथाल्पशब्दोऽभाववाची । अल्पश्रुतमश्रुतमित्यनौद्धत्यम् । ( ग्रन्थानं २०० ) अत एव श्रुतवतां दृष्टशास्त्राणां विदुषां परिहासधाम - हास्यास्पदम् । अत्र दृष्टान्तदृढता - किलेति सत्ये । यत् कोकिलः - कलकण्ठो मधौ - वसन्ते मधुरं - मृदुकण्ठं विरौति - कूजति तदहं मन्ये चारुचूतकलिकानिकरैकहेतुरस्ति । चार्व्यश्च ताः सकषायरसाश्चतकलिकाः – सहका१ 'वाचालता' इति ख- पाठः । २ ' वरसेवितचरण' इति ख- पाठः । ३ मुखरीकरोति' इति ख- पाठः ।
भ० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org