________________
१८
भक्तामर स्तोत्रम्
रस्य विकस्वरमञ्जर्यश्च ( चारुचूतकलिकाः ), चारुचूतकलिकानां निकरः - समूहः स चासौ एकहेतुश्चेति कर्मधारयः । तिक्तसुरभिसहकारस्मेरमञ्जरीपुञ्ज एव एकः कारणं विद्यते इत्यर्थः । औद्धत्ये तु यथाऽऽत्रमञ्जरीकृतभोजनः पुंस्कोकिलो मधुरखरो भुवि मनोहरः स्यात् ।
उक्तं च
"उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि कां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले | सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ १ ॥” - शार्दूल ०
तथाऽहं स्तोकग्रन्थोऽपि त्वदुक्त्या स्तवं कुर्वाणः प्रवीणश्रेणी लब्धवर्णो भावीति वृत्तभावार्थः ॥ ६ ॥
मे० वृ० - अथ भगवद्भक्तिप्रवृत्तत्वादेव मत्कृतावपि पण्डितप्रवृत्तिहेतुरिदं भविष्यति इत्याह(अल्पश्रुतमित्यादि) ।
मुनीश ! मां त्वद्भक्तिरेव मुखरीकुरुते इत्यन्वयः । ' मुखरीकुरुते' इति क्रियापदम् । वाचाल कुरुते इत्यर्थः । का कर्त्री ? ' त्वद्भक्तिः' तवानुरागः कं कर्मतापन्नम् ? 'माम्' । कस्मात् ? 'बलात्' हठात् । कथंभूतं माम् ? ' अल्पश्रुतं' न बहुशास्त्रज्ञम् । पुनः किंवि० माम् ? 'श्रुतवतां' शास्त्रज्ञानां 'परिहासधाम' हास्यस्थानम् । उक्तार्थे युक्तिमाह - 'किल' इति सत्ये । कोकिलः यत् मधौ मधुरं विरौति इत्यन्वयः । ‘विरौति' इति क्रियापदम् | जल्पतीत्यर्थः । कः कर्ता ? 'कोकिल' पिकः । किं कर्मतापन्नम् ? 'यत्' । 'मधुरं ' प्रियम् । कस्मिन् ? 'मधौ' वसन्ते । यत्तदोर्नित्याभिसम्बन्धात् तदिति 'तत्र चारुचूतकलिकानिक रैकहेतुः', 'भवति' इति शेषः । ' भवति' इति क्रियापदम् । कः कर्ता ? 'चारुचूतकलिकानिकरैकहेतुः' मनोहर आम्रमञ्जरीसमूह एव एकः - अद्वितीयो हेतुः - कारणमित्यर्थः । आम्रमञ्जरीकवलीकरणेनैव तत्कूजने माधुर्यं भवति इति भावः । तथापि (थैव ) ममापि स्तवन - प्रवृत्तौ मुख्य हेतुस्त्वद्भक्तिरेवेति हृदयम् ॥
अथ समासाः - अल्पं श्रुतं यस्य स तम् । प्रशस्तं बहु श्रुतं येषां ते श्रुतवन्तस्तेषाम् भूनि प्रशंसायां वा मतुप् । यदुक्तं ( श्रीकात्यायनवार्तिकपाठे ३१८३ ) -
"भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने ।
संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः ॥ १ ॥ " -- अनु०
श्रुतं विद्यते येषां ते श्रुतवन्तः तेषाम् । परिहसनं -परिहासः, परिहासस्य धाम परिहासधाम तत्पुरुषः । तव भक्तिस्त्वद्भक्तिः । एवेति निश्चये । मुखं वाग् अस्यास्तीति मुखरः, ' मध्वादिभ्यो रः (सिद्ध० अ० ७, पा० २, सू० २६ ) इति हैमवचनात् अस्त्यर्थे रप्रत्ययः, अमुखरं मुखरं कुरुते. इति मुखरीकुरुते, चित्रप्रत्ययः । चारुश्चासौ चूतश्च चारुचूतः, चारुचूतस्य कलिकाः चारुचूतकलिकाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org