________________
भक्तामर स्तोत्रम
गु०वि० - हे मुनीश ! - सकलयोगीश ! तथापि तव स्तोत्रकरणासामर्थ्य सत्यपि सोsहं क्षीरकण्ठकुण्ठप्रज्ञोऽपि स्तवारम्भे विगतशक्तिरपि - क्षीणवलोsपि । डमरुकमणि - न्यायेनोभयत्रापि तव प्रयोगः । तव - भवतो भक्तिवशात् - सेवाग्रहात् तव स्तवं स्तुतिं कर्तु - विधातुं प्रवृत्तः कृतोद्यमो जातः । अत्रोपमानम् - मृगो- हरिण आत्मवीर्य - निजबलम् अविचार्य - अविचिन्त्य निजशिशोः - स्वीयबालस्य प्रीत्या - प्रेम्णा परिपालनार्थ- परिरक्षणाय मृगेन्द्रं-सिंहं किं नाभ्येति - किं न युद्धायाभिमुखो ब्रजति ? | अपितु व्रजत्येव । अनौये यथा मृगः सिंहाभिगमे भग्नविक्रमो हास्यास्पदं तथाऽहं त्वत्स्तोत्रकरणे इति । औद्ध त्ये तु यथा कुरङ्गो मृगेन्द्राभिमुखोत्थाने अवलोsपि स्ववालपालनाय व्रजन् श्लाघां लभते । केसरिणस्तु मृगेण सह युद्धं लज्जायै ।
उक्तं च-
१६
" मृगारिं वा मृगेन्द्रं वा, सिंह व्याहरतां जनः ।'
तस्य द्वयमपि व्रीडा, क्रीडादलितदन्तिनः ॥ १ ॥ " - अनु०
तथापि मतिमन्दोऽहं त्वद्भक्तिपारवश्यात् स्तवनप्रवृत्तौ कृतयत्नः कृतिनां कीर्तिपात्रं भवितेति वृत्तगर्भार्थः ॥ ५ ॥
मे० वृ० – अथैवमशक्यकार्यतां दृढीकृत्य प्रवृत्तिहेतुमाह - ( सोऽहमित्यादि) ।
हे मुनीश ! तथापि सोsहं स्तवं कर्तुं प्रवृत्तोऽस्मि इत्यन्वयः । कर्तरि उक्तिः । 'यत्रान्यत् क्रियापदं न श्रूयते तत्र अस्तिर्भवन्त्यादिपरः प्रयुज्यत' इति न्यायादत्र ' अस्मि' इति क्रियापदम् । कः कर्ता ? 'सः' ' अहं विगतत्रपः' इत्यादिविशेषणविशिष्टः । कथंभूतः अहम् ? ' प्रवृत्तः कृतारम्भः । किम् ? 'कर्तुम्' । कं कर्मतापन्नम् ? ' स्तवं' स्तोत्रम् | "स्तवः स्तोत्रं स्तुतिर्नुतिः” (अभि० का० २, श्लो० १८३) इति सूरयः । कथम् ? ' तथापि' । सुरगुरुणाऽपि दुष्करस्तवने मादृशमन्दधियः सर्वथा असमर्थ - त्वेऽपि । तत्र हेतुमाह । कस्मात् हेतोः ? 'भक्तिवशात्' आन्तरप्रीतिवलात् । कस्य ? ' तव' । कथंभूतः अहम् ? 'विगतशक्तिरपि' निश्चितस्वकीया सामर्थ्योऽपि । अत्रान्वये द्वावपिशब्दौ अत्यन्तासङ्गत्यदर्शनेन वक्ष्यमाणां बहुश्रुतोपहसनीयतां प्राहतुः । असमर्थस्यापि प्रवृत्तौ हेतुं सूचयन्नर्थान्तरमाह - मृगो मृगेन्द्र किं नाभ्येति ? इत्यन्वयः । कर्तरि उक्ति: । 'अभ्येति' इति क्रियापदम् | सन्मुखं यातीत्यर्थः । कथम् ? 'न', काका अपितु अभ्येत्येव । कः कर्ता ? 'मृगः' हरिणः । कं कर्मतापन्नम् ? 'मृगेन्द्र' सिंहम् | किं कृत्वा ? ‘प्रीत्या' स्नेहेन 'आत्मवीर्यं' स्वबलम् ' अविचार्य' अविमृश्य | किमर्थम् ? 'निजशिशोः परिपालनार्थं' स्वबालकरक्षणाय । अत्रार्थे यथा सर्वथा मृगस्य सामर्थ्यं नास्ति तथापि स मृगः स्नेहपरवशस्तद्रक्षणाय प्रवर्तते, तथाऽहमपि त्वद्भक्तिवशात् प्रवृत्तोऽस्मीति भावः ||
1
१ 'डमरक' इति क- पाठः । २ 'मुखोत्थाय' इति क· पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org