________________
भक्तामरस्तोत्रम् .. अथ समासाः पादयोः पीठं पादपीठं, विबुधैः अर्चितं पादपीठं यस्य स तत्संबोधने हे विबुधार्चितपादपीठ! अनेन तक्षशिलापुर्या तथा हस्तिनागपुरे भगवदवस्थानभूमौ बाहुबलिना श्रेयांसेन कारितं पीठं सूचितम् । बुद्ध्या इत्यत्र विनायोगे तृतीया । सम्-सम्यक् प्रकारेण उद्यता मतिर्यस्य (सः), तथा विशेषेण गता विगता 'नाम्नश्च०' (सा० सू० ५३९) इति तत्पुरुषः, विगता त्रपा यस्य स विगतत्रपः । जले संस्थितं जलसंस्थितम् । इन्दोर्बिम्बं इन्दुबिम्ब तत्, कर्मणि द्वितीया । ग्रहीतुमित्यत्र 'ईटो ग्रहाम्' ( सा० सू० ८२१ ) इति दीर्घः ॥ इति तृतीयकाव्यार्थः ॥ ३ ॥
He.acknowledges his audacity. Oh Lord whose foot-stool is adored by the wise (or the celestials)! (really) I have become shameless ; for, though wanting in intelligence, I make an attempt at praising Thee. Who else than a child would hasten to catch the disc of the moon reflected in water? (-3)
अथ जिनेन्द्रस्तुतावन्येषां र्दुष्करतां दर्शयन्नाह
वक्तुं गुणान् गुणसमुद्र! शशाङ्ककान्तान्
कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्धया ? । कल्पान्तकालपवनोद्धतनकचक्र
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥४॥ गु०वि०-हे गुणसमुद्र !-स्थैर्यगाम्भीर्यधैर्यादिगुणरत्नरत्नाकर ! को बुधस्ते-तव शशानुकान्तान-निर्मलकलाभृत्कमनीयान् शान्ततादीन् गुणान् वक्तुं-जल्पितुं क्षमः समर्थः ? । किंभूतोऽपि ? बुद्ध्या-प्रतिभया सुरगुरुप्रतिमोऽपि-वाचस्पतिसमोऽपि । अत्र दृष्टान्तः-वा उपमितौ। कस्तरणकलाकुशलो नरो भुजाभ्यां-बाहुभ्यामम्बुनिधिं-सागरं तरीतुं-पारं प्राप्तुमलं-शक्तः ? अपितु न कश्चिदित्यर्थः । किंभूतमम्बुनिधिम् ? कल्पान्तकालस्य पवनेनोद्धतानि-अविनीतानि दुर्दानि उद्धृतान्यूज़ चलितानि वा नचक्राणियादोवृन्दानि यत्रेति समासः। प्रलयमरुत्प्रेरितदुष्टजन्तुजातमित्यर्थः । यथा युगान्तक्षुग्धाब्धितरणं दुःशंकं तथाऽर्हत्कीर्तनं गीर्पतेरपि दुर्घटम् , तत्राहं प्रवृत्तः समर्थ इवाभास्यामि विद्वजने, इत्यौद्धत्यम् ॥
अत्रापि मन्त्रः प्राक् कथित एव ॥
१ बहुव्रीहिः. २ बहुव्रीहिः. ३ बहुव्रीहिः. ४ तत्पुरुषः. ५ तत्पुरुषः.
'दुःकरणं' इति ग-पाठः । ७ 'कलाकमनीयान्' इति ग-पाठः। ८ 'शान्तादीन्' इति क-पाठः । ९ 'दुःशक्यं' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org