________________
श्रीमानतुङ्गसूरिविरचितम् गु० वि०-हे विबुधार्चितपादपीठ!-हे दैवतव्रातपूजितपदासन! जिन ! बुद्ध्या-प्रज्ञया विनाऽप्यह-मानतुगाचार्यः स्तोतुं समुद्यतमतिः-स्तवाय कृतमतिव्यापारो वर्ते, अत एव विगततपः-अशक्यवस्तुनि प्रवर्तनान्निर्लजः। दृष्टान्तमाह-बालं-शिशुं विहाय-मुक्त्वा कोऽन्यः-अपरो जनः सचेतनो जलसंस्थितं-नीरकुण्डमध्यप्रतिबिम्बितमिन्दुबिम्ब-चन्द्रमण्डलं ग्रहीतुं-लातुं सहसा-तत्कालमिच्छति-अभिलषति ? । बालस्तब्रहणाग्रहपहिलो भवति, नापरः, अहमपि बालरूपो ज्ञेय इति । औद्धत्ये त्वहं तादृशमतिशक्तिविकलो दुष्करकवित्वधुरोद्धरणाङ्गीकरणनिर्वहणात् प्राज्ञधुरन्धरेषु प्राधान्यं प्राप्स्यामीति, यतस्तद्विदःकवित्वश्रमविदः । उक्तं च
" विद्वानेव हि जानाति, विद्वजनपरिश्रमम् ।
न हि वन्ध्या विजानाति, गुर्वी प्रसववेदनाम् ॥१॥"-अनु० इत्याशयः॥३॥
मे० वृ०-अथ कविना किलेति संभावनाविधानेन जिनस्तवनकरणेऽसामध्ये व्यजितं, तर्हि कथं स्तुतौ प्रवृत्त इत्याह-(बुद्ध्येत्यादि)।
हे विबुधार्चितपादपीठ ! अहं त्वां स्तोतुं समुद्यतमतिरस्मि इत्यन्वयः । कवुक्तिः । हे देवपूजितचर. णन्यासस्थान ! हे भगवन् ! अहं-स्तोत्रकर्ता त्वां वर्णयितुं तत्परमना वर्ते इत्यर्थः । 'अस्मि' इति क्रियापदम् । कः कर्ता ? 'अहम्'। अकर्मको धातुः । किं कर्तुम् ? 'स्तोतुम्' । कं कर्मतापन्नम् ? 'वाम्' । कथम् ? 'विनाऽपि' । कया? 'बुद्ध्या' मत्या । कथंभूतः ? 'विगतत्रपः' लज्जारहितः । अत्रायं हेतुहेतुमद्भावः-यतोऽहं विगतत्रपः, अतस्त्वां बुद्ध्या विनाऽपि स्तोतुं समुद्यतमतिरस्मि, बुद्धिहीनो देवार्चनीयं भगवन्तं कथं स्तोष्ये इति भावः । उक्तार्थे अर्थान्तरन्यासमाह-अन्यः को जनो जलसंस्थितं इन्दुबिम्बं सहसा ग्रहीतुं इच्छति-वान्छति इत्यन्वयः। 'इच्छति' इति क्रियापदम् । कः कर्ता? 'अन्यो जनः' अपरो लोकः । किं कर्मतापन्नम् ? 'इन्दुबिम्ब' चन्द्रमण्डलम् । किं कर्तुम् ? 'ग्रहीतुं' लातुम् । कथम् ? 'सहसा । कथंभूतं इन्दुबिम्बम् ? 'जलसंस्थितं' जले प्रतिबिम्बितम् । किं कृत्वा ? 'बालं विहाय' कुमारं अव्यक्तं त्यक्त्वा । बालो हि कदाचिजले प्रतिविम्बितं चन्द्रमण्डलं दृष्ट्वा लातुं कर प्रसारयति, न पुनर्व्यक्तज्ञानवान् पुरुषः, प्रतिबिम्बे छायामात्रस्यैव भावात्, कदाचिदाकाशगतं चन्द्रमण्डलं देवादिप्रयोगाद् प्रहीतुं शक्यते, न पुनः प्रतिबिम्बगतमित्यनेन स्वस्य बालविलसितता भगक. स्तोत्रस्याशक्यकार्यता च उक्ता भवति । अत्र इषेः कर्तुजहतेश्च कर्तुवैकत्वं, तथापि विहायेविल्ववन्तरूपो निपातो विनार्थे द्रष्टव्यः, 'बलात्कारे प्रसह्य'इति वत् , तद्योगे च ततोऽन्यत्रापि दृश्यत इति द्वितीया ॥
मर्थान्तरन्यास-लक्षणम्" विशेषस्य सामान्येन साधयंवैधाभ्यां समर्थनमर्थान्तरन्यासः"
-श्रीहेमचन्द्रसूरिकृते काव्यानुशासने (१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org