________________
भक्तामरस्तोत्रम् यो वार्यादिलघुति दिनमणिमध्येगुरुजों रुजं
द्यौस्तो मूर्तिधनक्षयं गुरुमुखो भस्तारकेशो यशः ॥ १॥"-शार्दूलविक्रीडितम् इति गणाष्टकविवरणे, तथा 'भः प्रभुक्षोभकारकः' इत्युक्तत्वात् भकारोऽपि नादौ ग्राह्य इति घेदुच्यते
"मनौ मित्रे भयौ भृत्या-बुदासीनौ जतौ स्मृतौ ।
रसावरी नीचसंज्ञौ, द्वौ द्वावेतौ मनीषिभिः ॥ १॥"-अनु० मित्रगणात् द्वितीये मित्रगणे चापरमिति, तथा उदासीनाद् भृत्यगणे द्वितीये परे सति शुभजयश्च, अन्येषु सर्वगणयोगेषु न शुभमित्युक्तत्वात् , वर्णशुद्धावपि भामटवचनाद् भकारस्य संयुक्तस्यैव निषेधेन केवलस्य भगवद्वाचकत्वाञ्च न दोषः, अयं च विमर्शो वृत्तरत्नाकरवृत्तौ नारायणभट्टकृतायां बोध्यः । तथा मरेत्यपशब्दे दोषो न चिन्त्यः, आं इति मन्त्रबीजस्य आदावन्ते च काव्यस्य प्रक्षेपणेन स्तोत्रसंहितोद्भावनकारित्वात् , आं इत्यक्षरं चक्रेश्वरीमत्रबीजमित्यानायिका, अत एव रघुवंशादिकालिदासकृतौ एतद् बीजमेवाङ्कः । छन्दस्त्वत्र वसन्ततिलका । तल्लक्षणं च-"उक्ता वसन्ततिलका तभजा जगौ गः” ॥ इति काव्यद्वयार्थः ॥ १-२ ॥
The poet commences the hymn with benediction. Having duly bowed to the (holy) pair of the Jina's (Lord Rishabha's) feet- the feet which enhance the lustre of the jewels (set) in the crowns lowered by the devoted gods, which have destroyed the pitchy darkness of sins and which were in the beginning of the Yuga the (main) support of man-kind sinking in the sea of existence (Bhava), I (Mânatunga), too, will indeed praise that (very) first Lord of the Jinas, who has been extolled in hymns, lofty and captivating the hearts of (the living beings of) the three worlds, by the lords of the celestial worlds, (-the lords ) who had become proficient on account of the insight they acquired by gaining the knowledge of the true principles of all the sciences. (1-2)
अथ कविरात्मौद्धत्यं परिजिहीर्घराह
बुद्ध्या विनाऽपि विबुधार्चितपादपीठ !
स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥३॥ शार्दूलविक्रीडित-लक्षणम्
"सूर्याश्वैर्यदि मस्सजौ सततगाः शार्दूलविक्रीडितम् "
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org