________________
श्रीमानतुङ्गसूरिविरचितम् षष्ठीतत्पुरुषः, तासां भक्तामरप्रणतमौलिमणिप्रभाणाम् । उद्द्योतयतीति उद्द्योतकम् । पापान्येव तमांसि पापतमांसि, 'समासश्चान्वये नाम्नाम्' (सा० सू० ४६६) इति समासः, रूपी तत्पुरुषोऽयमिति प्रसिद्धिः, तमांसीव तमांसि, पापानि च तानि तमांसि पापतमांसि, 'उपमेयं व्याघ्राद्यैः०' (अ० ३, पा० १, सू० १०२) इति हैमवचनात् उपमितसमास इति वृद्धाः, पापतमसां वितानं पापतमोवितानं, षष्ठीतत्पुरुषः, दलितं पापतमोवितानं येन तत् , पुनर्द्वितीयाज्ञापनाय तदिति वक्तव्यं, तृतीयाबहुव्रीहिः । सम्-सम्यग् अञ्चतीति सम्यक् , 'सम्' इत्यव्ययस्य 'सहादेः' (सा० सू० ५०६) इति सूत्रेण समित्यादेशः । प्रकर्षण नत्वा प्रणम्य, 'समासे क्यप्' (सा० सू० १४८३), 'क्त्वाद्यन्तं च' (सा० सू० ३५८) इत्यव्ययत्वाद् विभक्तिलोपः । जयति रागादीन् जिनः, पादयोर्युग-पादयुगं षष्ठीतत्पुरुषः, जिनस्य पादयुगं जिनपादयुगं षष्ठीतत्पुरुषः, कर्मणि द्वितीया । युगस्य आदिः युगादिः, तस्मिन् युगादौ । आलम्बयतीति आलम्बनम् । बहुलत्वात् साधुः । भव एव जलं भवजलं, तस्मिन् भवजले, 'समासश्च०' (सा० सू० ४६६) इति समासः । पतन्तीति पतन्तस्तेषाम् । संस्तूयते स्म संस्तुतः । सह कलाभिर्वर्तते यत् तत् सकलं, वाचां विकारोऽवयवो वा वाङ्मयं, 'एकवरात् (अ० ६, पा० २, सू० ४८) इति हैमसूत्रात् मयट्, कश्चित् तु वाचा निर्वृत्तं वाङ्मयमित्युक्त्वा तत्पुरुषोऽयमित्याख्यत् , तथा तस्य भावस्तत्त्वं, सकलं च तद् वाङ्मयं च सकलवाङ्मयं, सकलवाङ्मयस्य तत्त्वं सकलवाङ्मयतत्त्वं, तस्य बोधः सकलवाङ्मयतत्त्वबोधस्तस्मात , हेतौ पञ्चमी । उद्भूता चासौ बुद्धिश्च उद्भूतबुद्धिः स्त्रीलिङ्गकर्मधारयः, उद्भूतबुद्ध्या पटवः उद्भूतबुद्धिपटवः । सुराणां लोकाः (सुरलोकाः), सुरलोकानां नाथाः सुरलोकनाथास्तैः, कर्तरि तृतीया । स्तूयते एभिरिति, 'नीदाम्बशसू०' (अ०५, पा० २, सू० ८८) इति हैमसूत्रेण ट्प्रत्ययः, करणे तृतीया । त्रयोऽवयवा अस्य त्रितयं, जगतां त्रितयं जगत्रितयं, जगत्रितयस्य चित्तानि जगत्रितयचित्तानि, तानि हरन्तीति जगत्रितयचि. त्तहराणि, सर्वत्र तत्पुरुषः । स्तोष्ये इत्यत्र स्तवनजन्यपुण्यस्य आत्मगामित्वादात्मनेपदम् । जिना:सामान्यकेवलिनस्तेषु इन्द्र इव इन्द्रो जिनेन्द्रः-तीर्थकरः, स तेषामपि प्रदक्षिणादिरूपोपचारविनयविषय इति भावः॥
ननु स्तोत्रस्यैव मङ्गलत्वात् तदारम्भे मङ्गलाचरणेऽनवस्थेति चेत् , न, स्तोत्रस्य भावमङ्गलत्वेन ततोऽपि स्थापनारूपजिनपादप्रणामस्य शिष्यादीनामपि तथा प्रवर्तकत्वेन शिष्टाचाररक्षणस्यावश्यकत्वाच्च वैशिष्ट्यख्यापनेन अदुष्टत्वात् , न च अनवस्था, तीर्थकृतां भावमङ्गलरूपव्रताङ्गीकारे "काऊण नमोक्कार, सिद्धाणमभिग्गहं तु सो गिण्हे" (आवश्यक-निर्युक्तौ) इत्यागमानमोमङ्गलस्यावश्यकत्वेन दर्शनात् , विवाहप्रज्ञत्यादिधर्मशास्त्रेषु अपि आदौ मङ्गलसद्भावाचेति ॥ नन्वेवमपि 'त'गणग्रहणमादौ कथं ? तस्य कविसमये निषिद्धत्वात् । "उर्वी मस्त्रिगुरुः श्रियं वितनुते नः स्वस्त्रिलो जीवितं
रोऽग्निर्मध्यलघुर्मति स पवनो देशभ्रमं चान्यगुः । १ छाया
कृत्वा नमस्कार, सिद्धेभ्योऽभिग्रहं तुस गृहाति । भ०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org