________________
भक्तामर स्तोत्रम्
श्री मेघविजयमहोपाध्यायकृता वृत्तिः
श्रीशङ्खेश्वरपार्श्व, नत्वा भक्तामर (स्तव) स्यार्थम् ।
श्री विजयप्रभसूरे - लिंखामि वचनात् सुशिष्यार्थम् ॥ १ ॥ - आर्या
st हि भगवान् श्रीमानतुङ्गसूरिः श्रीमज्जिनशासनसू(भू) रिप्रभावनाभावनयाऽनेकलो कानैहिकामुष्मिकदुःखेभ्यो रिरक्षिषुः सप्रभावं श्रीप्रथमप्रभुस्तोत्रं कुर्वन् प्रथमं मङ्गलार्थमाह-भक्तामर प्रणतेति, ( यः संस्तुतेति ) युग्मम् । अनयोः संहितादिक्रमेण सुखावबोधाय व्याख्या- 'किल' इति संभावना - याम् । ‘अहमपि तं प्रथमं जिनेन्द्रं स्तोष्ये' इत्यन्वयः । कर्तरि उक्ति: । 'अहं' मानतुङ्गनामा आचार्य:, 'अपि' इति असामर्थ्यद्योतने, 'तं प्रथमं जिनेन्द्र' वृषभजिनं 'स्तोष्ये' स्तवनविषयीकरिष्य इत्यर्थः । असमर्थस्य तादृक्प्रभोः स्तवनकरणे उद्यममात्रमेव, न तु सामर्थ्यम्, तेन स्तवनं भविष्यति न वेति हीन कोटिसंशयस्वरूपा सम्भावना भाव्या । 'स्तोष्ये' इति क्रियापदम् । कः कर्ता ? ' अहम्' | कं कर्मतापन्नम् ? 'तं जिनेन्द्रम्' । किंविशिष्टम् ? 'प्रथमम्' । तच्छब्दो यच्छब्दमपेक्षते । तं कम् ? ' यः सुरलोकनाथैः संस्तुतः ' यो भगवान् इन्द्रैः स्तुतिविषयीकृत इत्यर्थः । देवाधिदेव इति भावः । 'संस्तुत:' इति क्रियापदम् | कैः कर्तृभिः ? 'सुरलोकनाथैः' । कः कर्मतापन्नः ? 'यः' । कर्मणि उक्तिः । कैः करणैः ? ' स्तोत्रैः' । किंविशिष्टैः ? 'जगत्रितयचित्तहरैः' आधारे आधेयस्य ग्रामश्चलित इत्यादिवदुपचारात् जगत्रितयस्थजीवानां चितस्य- मनसः अभिरञ्जकैः । पुनः किं० ? 'उदारैः' प्रधानैः विविधार्थयुक्तैः । किंविशिष्टैः सुरलोकनाथैः ? 'उद्भूतबुद्धिपटुभि:' । कस्मात् ? 'सकलवाङ्मयतत्त्ववोधात् ' सर्वशास्त्राणां तत्त्वं - रहस्यभावार्थ: तस्य ज्ञानात् प्रादुर्भूता या बुद्धिस्तया पटवो - विदग्धा इत्यर्थः । “विज्ञवैज्ञानिकाः पटुः छेको विदग्धे " इति हैमकोष : (का० ३, श्लो०७ ) । किं कृत्वा स्तोष्ये ? ' प्रणम्य' भक्तिश्रद्धाति - शयलक्षणः प्रकर्षस्तेन नत्वा । कथम् ? 'सम्यक्' मनोवाक्कायोचितप्रकारेण | क्रियाविशेषणमेतत् । किं कर्मतापन्नम् ? 'जिनपादयुगं' जिनस्य अत्र प्रस्तुतत्वात् प्रथमार्हतश्चरणयुगलं, श्री सिद्धाचले राजादनतरोस्तले स्थापनारूपं तदिति सम्प्रदायः । किंविशिष्टं जिनपादयुगम् ? 'भक्तामरप्रणतमौलिमणिप्रभाणां उद्योतकं' भक्ता-भक्तिभाजो ये अमरा - देवास्तेषां प्रणता - विनयेन अवनता ये मौलय :- शिरो मुकुटानितेषु मय:- चन्द्रकान्ताद्याः सामान्येन रत्नानि च तेषां प्रभाः - कान्तयः तासां उद्दीप ( द्योत ) कं-उद्यो तकारकम् । यथा सूर्यकिरणैः सूर्यकान्ततेजांसि प्रोद्भाव्यन्ते तथा जिनपादयुगं प्रकाशकं मणिप्रभाणाम्, ततोऽधिक तेजस्त्वमत्र व्यङ्ग्यम् । पुनः किं० ? ' दलितपापत मोवितानम्' क्षिप्तपापरूपान्धकारजालम् । पुनः किं० ? ' आलम्बनं ' अवष्टम्भरूपम् । केषाम् ? ' जनानां' लोकानाम् । किं कुर्वतां जनानाम् ? 'पततां' बुडताम् । क ? 'भवजले' संसाररूपे जले, दुस्तरत्वात्, लक्षणया जलधौं आलम्बनं, कस्मिन् काले ? 'युगादौ' एतदवसर्पिणीतृतीयारकपर्यन्ते, चतुर्थारकस्यादौ इति ॥
1
Jain Education International
अथ पदविग्रहः - भक्ताच ते अमराश्च भक्तामराः पुंलिङ्गकर्मधारयः प्रणताच ते मौलयश्च प्रणतमौलयः (कर्मधारयः), भक्तामराणां प्रणतमौलयः (भक्ता० षष्ठीतत्पुरुषः), (भक्तामर प्रणतमौलिषु मणयः भक्ता० ) सप्तमीतत्पुरुषः, भक्तामरप्रणतमौलिमणीनां प्रभाः भक्तामरप्रणतमौलिमणिप्रभाः
For Private & Personal Use Only
www.jainelibrary.org