________________
श्रीमानतुझसूरिविरचितम् अत्र मन्त्रानायो यथा
ॐ नमो वृषभनाथाय, मृत्युञ्जयाय, सर्वजीवशरणाय, परमपुरुषाय, चतुर्वेदाननाय, अष्टादशदोषरहिताय, अजरामराय, सर्वज्ञाय, सर्वदर्शिने, सर्वदेवाय, अष्टमहापातिहार्यचतुस्त्रिंशदतिशयसहिताय, श्रीसमवसरणे द्वादशपर्षद्वेष्टिताय, दानसमर्थाय, ग्रह-नाग-भूतयक्ष-राक्षस-शङ्कराय, सर्वशान्तिकराय । मम शिवं कुरु कुरु स्वाहा । इति मन्त्रजापाद् विपत्प्रलयो हेमवत् ॥
एकदा जैनमतद्वेषिभिर्द्विजैर्भोजराजस्य पुरोऽजल्पि-नरेश्वर! यद्यपरः कोऽपि स्तवमाहात्म्यं दर्शयति तदा सत्यः स्तवप्रभावः, श्रीमानतुगाचार्यैस्तदा कयाचिन्मन्त्रशक्त्या देवतासान्निध्येनौषधीबलेन वा निगडभञ्जनं विदधे, इति श्रुत्वा पृष्टाः पार्षद्याः पृथ्वीपालेनअस्ति स्तोत्रस्मर्ता कश्चिन्नरः? । एकेनोक्तं-स्वामिन् ! वर्तते हेमश्रेष्ठी यो वर्णमात्राशुद्धं भक्तामरस्तवमधीयानो जपति च । आकारितः कौतुकिना काश्यपीकान्तेन । आयातो हेमा, प्रणतो भोजः । नृपेणोक्तः-स्मरसि स्तवम् ? । तेनोचे-बाढं स्मरामि । (भूपो जगौ-) तर्हि त्वया स्तवप्रभावादन्धावटान्निःसरणीयम् । नागपाशैर्बद्ध्वा क्षिप्तो हेमोऽन्धकूपे, प्राहरिकाः स्थापिताः, दिनत्रयं चावधीकृतम् । प्रथमेऽहनि रजनीप्रथमयामे प्रथमजिनस्तवनप्रथमवृत्तद्वयजपनात् प्रत्यक्षीभूतया चक्रेश्वोऽन्धकूपान्तरालमुयोत्योक्तो हेम:-वत्स! प्रातर्भूपपुरस्त्वां नेष्यामि, जपितस्तवाद्यपद्यद्वयाद्राजा मत्कृतनागपाशेभ्यो मोचनीयः पानीयच्छटया । ततो देव्या नागपाशैबेद्धो भूपो यथा शयनीयादप्युत्थातुं न शशाक । अथ नभःस्थयाऽप्रतिचक्रयोचे-रे रे दुष्ट! हेमं समानय यथा तद्भणितस्तवमत्राभिमन्त्रितजलच्छटया त्रुटन्ति तव बन्धनानि । भूभुजोक्तम्-भो सेवकाः! शीघ्रं कूपानिष्कासनीयो हेमः, निर्बन्धनोऽत्रानेतव्यश्च भवद्भिः। यावतेत्यलपद् भूपस्तावद् देवीप्रभावात् तत्रोर्ध्वस्थो दृष्टो हेमः, विस्मितः सपरिकरो नृपवरः, प्रथमवृत्तद्वयजपिताम्भःसेकात् सजीकृतश्च । तर्जितो देव्या नृदेवः-किं पुनः सर्वसुरार्चितस्य श्रीऋषभस्य स्तोत्रप्रभावं पश्यसि ? । एतदज्ञानचेष्टितं सह्यं ममेति जजल्प निर्विकल्पः प्रभुर्भुवः, (अप्रति)चक्राचरणयोरपतच्च । तिरोऽधाद् देवी । (राज्ञा) बन्धुवन्मानितो हेमः स्वासनमारोपितश्च, स्तवचिन्तामणिर्हदि रक्षामणिः कृतः । परमजैनो जातो राजा, (जिनशासनस्य) महती प्रभावना प्रससार, सर्वत्र परमानन्दश्चाजनि ॥
इति हेमकथा प्रथमा ॥१॥
। 'मलापः' इति ग-पाठः। २ 'स्तवपदद्वया' इति ग-पाठः। ३ 'दुष्टाः ! हेमं समानयत' इति ख-पाठः । . 'तम्मनामि' इति क, ख. पाठः। ५ 'हृदि स्थापितः' इति ग-पादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org