________________
भक्तामरस्तोत्रम् अत्राद्यवृत्तेऽतिशया यथा-उद्दयोतकमिति 'पूजातिशयः', दलितपापतमोवितानमिति 'अपायापगमातिशयः', आलम्बनमिति 'ज्ञानवचनातिशयौ', यतो ज्ञानी सद्वाक्यच जनाधारो भवति ॥ - अत्र चाम्नायः-श्रीऋषभस्वामी वर्षसहस्रं विहत्य विनीतायाः शाखापुरे पुरिमतालाख्ये शकटमुखोद्याने न्यग्रोधतरोरधः केवलभागभूत्, यमकेन भरतो वर्धितः, तदैव. शस्त्रशालायां चक्रप्रादुर्भावात् शमकेनापि, समकं द्वयोर्मुखाद् वर्धापनमाकर्ण्य क्षणं विमृश्य पितामह्या सह गजेन्द्रारूढो (भरतः) सर्वगुणं तातं वन्दितुमगात् । मरुदेवी देवदुन्दुभिं जयजयारवं च श्रुत्वा भरतमाह स्म-वत्स! कोऽयं कोलाहलः। भरतोऽवदत्-वृद्धमातः! त्वत्पुत्रपुण्याकृष्टानां सुराणां जयजयक्वणो दुन्दुभिध्वनिः प्रभुदिव्यध्वनिश्च वर्तते । तस्या अमन्दानन्दाश्रुजलं गलितं, नीलपटलमक्ष्णोर्गतम् । प्राकारच्छत्रत्रयचैत्यद्रुमेन्द्रध्वजादिवि. भूतिं पश्यन्ती चेतसीत्यचिन्तयत् स्वामिनी-धि मोहविह्वलान् प्राणिनः, स्वार्थे स्त्रिह्यन्ति जन्तवः, मोहः क्लेशहेतुर्मयाऽनुभूतः। अहमहरहः शीतातपवर्षापीडासहमनुपानहं निर्यानं निरशनं निर्वसनं गिरिकन्दरादिष्वटन्तं मत्सुतं संमान्यानयेति भरतं भणामि, शोकदुःखेन दृशौ गते, एष एवंविधामृद्धि प्राप्तो मन्नामापि न पृच्छति, मदुःखं च न त्ति, स्वास्थ्यहेतुं सन्देशमात्रं न दत्ते, अहो वीतरागत्वमस्य ! नीरागे का प्रतिबन्धा? समस्तवस्तुषु निर्ममतां गता भगवती, दध्यौ च
यत्रैवाहमुदासे, तत्र मुदाऽऽसे स्वभावसन्तुष्टः।
यत्र च वस्तुनि ममता, मम तापस्तत्र तत्रैव ॥१॥-आर्या इति, क्षीणमोहा ध्वस्तसमस्तकर्मा अन्तकृत्केवली सिद्धो मरुदेवीजीवः । देवैर्महिमा चक्रे, क्षीराब्धौ क्षिप्तं वपुः। भरतः पितामहीवियोगभगवदर्शनाभ्यां शोकानन्दयुक् (ग्रन्थाग्रं१००) पञ्चविधाभिगमेन जिनं नत्वोपाविशत् सदसि ।
"अपारे संसारे कथमपि समासाद्य नृभवं
न धर्म यः कुर्याद् विषयसुखतृष्णातरलितः। ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ १॥"-शिखरिणी
___ -सिन्दूरप्रकरे, श्लो०७ इत्यादि भगवदर्मदेशनां श्रुत्वा ऋषभसेनादयः साधवः, ब्राहयाद्याः साध्व्यः, भरतप्रमुखा उपासकाः, सुन्दरी-सुभद्राप्रभृतयः श्रमणोपासिकाः, सुराः सम्यक्त्वधरा अभवन् । ततस्तीर्थ प्रववृते । भरतवर्षे सिद्धिपन्थोद्घाटितःप्रभुणा, अतो युगादावालम्बनं जिनेश्वरः॥
प्रतिदिनम् । २ गिरिकपाटेष्वटम्त' इति क-पाठः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org