________________
श्रीमानतुङ्गसूरिविरचितम् लोहमारगृङ्खलनंद्धसर्वाङ्गाः सतालकद्विचत्वारिंशन्निगडनियन्त्रिता उत्पाव्य प्राज्यकपाटसम्पुटयुक्तगृहान्तः क्षिप्ताः, एकैकेन वृत्तेनैकैकान्दुकतालकभञ्जनाङ्गीकारं कारिताश्च । मुक्ताः प्राहरिका बहिः । प्रभुभिर्भक्तामरेत्यादिस्तवं चक्रे । बन्धनानि तुत्रुटुः क्रमेण । एके वदन्तिद्विचत्वारिंशता वृत्तेनैकेन निगडाः पेतुः, तालकभङ्गोऽजनिष्ट, कपाटसम्पुटः स्वयमेवोदंघटिष्ट, प्राहरिकैः सह बहिरागताः सूरयः, नमस्कृता भोजेन, सिंहासनमारोपिताश्च । अद. मुयडभूद् भूपः, जैनदर्शनं सकलमिति मेने ॥
॥ इति स्तवमूलप्रबन्धः॥ अथ स्तवार्थ उच्यते, यथासम्यग् जिनपादयुगं प्रणम्य किल अहमपि तं प्रथमं जिनेन्द्रं स्तोष्ये इति सम्बन्धः। जिनस्य-प्रथमतीर्थकृतः पादौ-चरणौ तयोर्युग-युग्मं जिनपादयुगं, सम्यक्-त्रिकरणशुद्ध्या नत्वा । किम्भूतम् ? भक्ताः-परिचर्यायुक्ता येऽमरा-देवास्तेषां नमस्कारवशात् प्रणता-नम्रा ये मौलयोमुकुटानि शिरांसि वा तेषु तेषां वा ये मणयः-चन्द्रकान्तादयस्तेषां प्रभा-रुचयस्तासां भक्तामरप्रणतमौलिमणिप्रभाणां, उद्दयोतयतीत्युद्दयोतकं प्रकाशकं तत्; दलितं-क्षिप्तं पापमेव तमोवितानं-ध्वान्तजालं येन तत् ऋजुजडनराणां शिल्प-नीति-लिपि-कलादर्शनात् च चतु:पुरुषार्थप्रकटनात् (चतुष्पष्टिमहिलागुणदर्शनात् ) द्विविधधर्मप्रकाशनाद् वा भगवता सुषमदुष्षमाप्रान्तेऽपि युगादिः कालः कृतः, अतो युगादौ, भवो-जन्मजरामरणरूपःसंसारः, स एव जलं, तत्र भवजले पततां-मजतां जनानां-भव्यसत्त्वानामालम्बनम्-आधारः सदुपदेशात् । अथ सामान्यजिनपादयुगं प्रणम्य युगादौ प्रथमसमवसरणे तीर्थप्रवर्तनाद् यथा जले पततां द्वीपं यानपात्रं वाऽऽलम्बनं तथा भवे निमजतां जिनपादारविन्दमेवाधारः। किलेत्यव्ययं सत्यागममङ्गलार्थवाचि । अहमपि-मानतुङ्गाचार्योऽज्ञोऽपि अनौद्धत्ये सुरेन्द्राद्यपेक्षया जडधीः, नान्येषामपेक्षयेति हृदयम् , स्तोष्ये गुणोद्भासनेन कीर्तयिष्यामि, तं प्रथम-श्रीनाभेयं जिनेन्द्रं-जिनप्रभुम् । अथ प्रथम-प्रसिद्धं आदौ वा सामान्यतीर्थकरम् । यत्तदोर्नित्याभिसम्बन्धाद् यो भगवान् स्तोत्रैः-शक्रस्तवाद्यैः सुष्टु राजन्ते इति सुरास्तेषां लोको-जगत्स्वर्गस्तस्य नाथैः-प्रभुभिः सुरलोकनाथैः संस्तुतः-सम्यग् नुतः । अथवा सुरश्चासौ लोकश्च सुरलोको-देवसमूहस्तस्य नाथैः-इन्द्रैः। किम्भूतैस्तैः? सकलं-सम्पूर्ण यद् वाङमयं-शास्त्रजातं तस्य तत्त्वं रहस्यं तस्य बोधाद्-ज्ञानात्-परिच्छेदाद् उद्भूता-उत्पन्ना या बुद्धिः-प्रज्ञा तया पटुभिः-कुशलैः । स्तोत्रैः किम्भूतैः ? जगतां-भूर्भुवः स्वः)स्वरूपाणां त्रितयं, तस्य चित्तं हरन्तीति ते तथा तैः उदारैः-महाथैः ॥
१ 'बद्ध' इति ग-पाठः । २ 'वृत्तेन' इति ग-पाठः । ३ 'वोद्घाटिष्ट' इति क-ख-पाठः। ४ अमुं अञ्चतीति भदमुयह एतत्पूजकः । ५ 'युगायुगादौ' इति क-पाठः। ६ 'अथ च' इति क-पाठः। ७ 'त्रितयस्य' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org