________________
७७
सर्गः] टीकया सहितम्
महा० हे नाथ ! त्वं महाबलक्ष्मापभवे महाबलाख्यस्य राज्ञो भवे बोधैकबलात् बोधस्य प्रबोधस्यैकबलं बोधैकबलं तस्मात् निजाख्यं आत्मीयं नाम यथार्थकी चकर्थ सत्यार्थीकृतवान्! १३ किं कुर्वन् ? अखर्वाणि प्रौढानि चार्वाकवचांसि चूर्णयन् , (पुनः) किंविशिष्टानि (चार्वाक ) वांसि अक्षरकोटकुट्टने मोक्षदुर्गकुट्टने अयोधनान् लोहमुद्रान् ॥ ५८ ॥
द्वितीयकल्पे ललिताङ्गतां त्वया,
गतेन वध्वा विरहे व्यलापि यत् । दरिद्रपुत्र्यै दयितुं तपःफलं,
तदन्यदर्था हि सतां क्रियाखिला ॥ ५९॥ द्वितीय० हे नाथ ! त्वया द्वितीयकल्पे ईशानदेवलोके ललिताङ्गतां ललितं सविलासं अङ्गं यस्य स ललिताङ्गस्तस्य भावो १२ ललिताङ्गता ताम् , ललिताङ्गताख्यदेवत्वं वा । गतेन प्राप्तेन वध्वा विरहे यत् व्यलापि व्यलापः कृतः, तत् दरिद्रपुत्र्यै निर्नामिकायै तपःफलं दयितुं दातुं ज्ञेयम् । हि यस्मात् १५ कारणात् सतां साधूनां अखिला समस्ता क्रिया अन्यदर्था अन्येषामुपकारहेतुं वर्तते, अत्र षष्ठी 'तृतीयादन्याषष्ठ्यर्थे। ( ) इति व्याकरणसूत्रेण अन्यदर्थी इति स्यात् ।। ५९ ॥ १८
स वज्रजङ्घो नृपतिर्भवन् भवा
नवाप हालाहलधूमपायिताम् । यदङ्गजादङ्गजतस्ततस्तवा
धुनापि विश्वासबहिर्मुखं मनः ॥ ६०॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org